________________
सर्गः ]
सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् |
१३
निर्झरो झरः' इत्यमरः । तुषारैः सीकरैः । ' तुषारौ हिमसीकरौ' इति शाश्वतः । पृकः सम्पृक्कोsनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी ईषत्कम्पितपुष्पगन्धवान्, अत एव शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम् । अत एवात पक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे । आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ।
अ० – गिरिनिर्झराणां, तुषारैः, पृक्तः, अनोकहाकम्पितपुष्पगन्धी, पवनः, अनातपन्नम् आतपक्लान्तम्, आचारपूतं तं सिपेवे । वा० - पृक्तेनानोऽकहा कम्पितपुपगन्धिना पवनेनानातपत्र आतपङ्कान्त आचारपूतः स सिषेवे ।
सुधा - गिरिनिर्झराणां = शैलवारिप्रवाहाणां तुषारैः = सीकरैः, शीतजलकणिकाभिरिति यावत् । पृक्तः = सम्पृक्तः, अनोऽकहाकम्पितपुष्पगन्धी = पादपेषञ्चलि तप्रसुनामोदवान्, पवनः = वातः, अनातपत्रं = छत्ररहितं, व्रतार्थमस्वीकृतच्छुत्रमिति भावः । 'अत एव' आतपक्कान्तं = धर्मम्लानम्, आचारपूतम् = सदाचारशुद्धम् । तं = दिलीपम्, सिषेवे = असेविष्ट |
समा० - गिरिषु निर्झरा गिरिनिर्झरास्तेषां गिरिनिर्झराणाम् । 'अनसः शकटस्याकं गतिं नन्तीत्यनोऽकहाः, आकम्पितानि च तानि पुष्पाण्याकम्पितपुष्पाणि, अनोकहानामाकम्पितपुष्पाण्यनोऽकहा कम्पितपुष्पाणि तेषां गन्धोऽनोऽकहाकम्पितपुष्पगन्धः सोऽस्यास्तीत्यनोऽकहाकम्पितपुष्पगन्धी । आतपात् त्रायत इत्यातपत्रम्, न विद्यत आतपन्नं यस्यासावनातपत्रस्त मनातपत्रम् । आचारेण पूत आचारपूतस्तमाचारपूतम् ।
को० – 'अद्विगोत्रगिरिप्रावाचलशैलशिलोच्चयाः' इत्यमरः । 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः' इति विश्वः । 'घर्मः स्यादातपे ग्रीष्मेऽष्यून्मस्वेदाम्भसोरपि' इति मेदिनी । 'छत्रन्त्वातपत्रम्' इत्यमरः ।
ता० - शीतलो मन्दः सुरभिश्च पवनश्छत्ररहितं घर्मग्लानं सदाचारपविनं दिलीपमसेविष्ट |
इन्दुः- पहाड़ी झरनों के जलबिन्दुओं से युक्त, अत एव शीतल तथा वृक्षों के कुछ २ हिले हुये फूलों के गन्ध को लेता हुआ 'मन्द २ सुगन्धित वायु, व्रत करने छत्र से रहित अत एव घाम से मुरझाये हुये सदाचार से पवित्र उन राजा दिलीप की सेवा करने लगा ॥ १३ ॥
शशाम वृष्टाऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्वेष्वधिको बबाधे तस्मिन् वनं गोप्तरि गाहमाने || १४ || सञ्जी० - शशामेति । गोप्तरि तस्मिन् वनं गाहमाने प्रविशति सति वृष्ट्या विनाऽपि दवाग्निर्वनाग्निः 'दवदावौ वनानले' इति हैमः । शशाम । फलानां पुष्पाण वृद्धिः । विशेष्यत इति विशेषा अतिशयिताऽऽसीत् । कर्मार्थे धन्प्रत्ययः । सत्त्वेषु