Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 99
________________ सर्गः] सञ्जीविनी-सुधेन्दु कात्रयोपेतम् | __ सुधा-पन्नवरागताम्रा= किसलयवर्णारुणा, पतङ्गस्य = सूर्यस्य, प्रभा = कान्तिः; मुनेः = महर्वसिष्ठस्य । धेनुः = नन्दिनी, च = समुच्चये, दिगन्तराणि = आशावकाशान्, सञ्चारपूतानि सञ्चरणपवित्राणि, कृत्वा = सम्पाद्य, दिनान्ते=दिवसाव. साने, निलयाय =(प्रभापक्षे) अस्तमयाय, (धेनुपक्षे) गृहाय, गन्तुं = याहूँ, प्रचक्रमे = उपक्रमं कृतवती।। ___समा०-सञ्चारेण पूतानि सञ्चारपूतानि तानि सञ्चारपूतानि । दिशामन्तराणि दिगन्तराणि तानि दिगन्तराणि । दिनस्यान्तो दिनान्तस्तस्मिन् दिनान्ते । कोशः–'निलयोऽस्तमये गृहे । गोपनस्य प्रदेशेऽपि' इति हैमः। 'पल्लवोऽस्त्री किसलयम्' इत्यमरः। 'तानं शुल्बेऽरुणेऽपि च' इति मेदिनी। ___ता:०-सूर्यकान्तिर्यथा सायङ्कालेऽस्तमयाय गन्तुमुपक्रमं कृतवती तथैव सुनिहोमधेनुरपि स्वाश्रमाय गन्तुमुद्यताऽसूत् । इन्दुः-पल्लव के वर्ण की तरह लाल वर्णवाली सूर्य की प्रभा और मुनि वसिष्ठ की धेनु ये दोनों, दिशाओं के मध्यभाग को अपने-अपने सञ्चार से पवित्र करके दिन के अन्त (सन्ध्याकाल) में अस्त होने के लिये तथा अपने आश्रम में पहुंचने के लिये उपक्रम करने लगीं ॥ १५॥ तां देवतापित्रतिक्रियाऽर्थामन्वग्ययौ मध्यमलोकपालः | बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विपिनोपपन्ना ।। १६ ।। सजी०--तामिति । मध्यमलोकपालो भूपालः । देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः यस्यास्तां धेनुमन्वगनुपदं ययौ । 'अन्वगन्वक्षमनुगेऽनुपदं क्लीवमव्ययम्' इत्यमरः । सतां मतेन सद्भिर्मान्येन । 'गतिवुद्धि' इत्यादिना वर्तमाने क्तः। तस्य च वर्तमाने' इति षष्ठी। तेन राज्ञोपपन्ना युक्ता सा धेनुः सतां मतेए विधिनाऽनुष्ठानेनोपपन्ना युक्ता साक्षात्प्रत्ययक्षा श्रद्धाऽऽस्तिक्यबुद्धिरिव बभौ च। ___ अ०--मध्ममलोकपालः, देवतापित्रतिथिक्रियाऽर्था, ताम्, अन्वग, ययौ, सतां मतेन, तेन, उपपन्ना, सा, (सतारमतेन), विधिना, (उपपना) साक्षात्, श्रद्धा, इव, वभौ च । वा०--मध्यमलोकपालेन देवतापित्रतिथिक्रियाऽर्था साऽन्वग् यये उपपन्नया तया साक्षाच्छूद्धयेव वभे च । सुधा--मध्यमलोकपालः = भूपो दिलीपः, देवतापित्रतिथिक्रियाऽर्थां = सुरपित्रप्राधुणिककृत्यप्रयोजनका, यज्ञश्राद्धदानादिसाधिकामिति यावत् । तां वनात्परावर्त्तमानां नन्दिनीम्, अन्वग= अन्वक्षम् । ययौ जगाम, सतांसाधूनां, विदुषां वा, मतेन= पूजितेन, तेन-राज्ञा, दिलीपेन, उपपन्ना= युक्ता, साधेनुः, सताम्मतेन% साधुजनाचरितेन, विधिना= विधानेन, उपपन्ना-युक्ता, सहितेति यावत् । साक्षात्

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149