Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 78
________________ रघुवंशमहाकाव्यम् [प्रयम:भवतु चेत् तदा त्वमपि तावत् स्थितो भव । यदा च क्वचिदुपविष्टा स्यात् तदा त्वमपि तत्रैव समुपविश। यदा च तृषाऽऽर्ता क्वचित् सलिलं पिबतु तदेव त्वमपि सलिलं पिब । न तु, तृषाऽऽत्तॊऽपि कदाचित् ततः प्राग जलं पिव ॥ ___ इन्दुः-हे राजन् ! इस (नन्दिनी) के चलने पर तुम (इसके पीछे २) चलो, ठहरने पर ठहरो, बैठने पर बैठो और पानी पीने पर पानी पीओ ॥ ८९॥ ®साम्प्रतं नन्दिनीपरिचर्यायां सुदक्षिणयाऽनुष्ठास्यमानं कर्म ब्रवन्नाह वधूभक्तिमती चैनामचितामा तपावनात् । प्रयता प्रातरन्वेतु सायं प्रत्युबजेदपि ।। ६०॥ सञ्जी०-वधूर्जाया च भक्तिमती गन्धादिभिरर्चितामेनां प्रातरा तपोवनात् । आङ्मर्यादायाम् । पदद्वयं चैतत् । अन्वेत्वनुगच्छतु । सायमपि प्रत्युद्वजेत्प्रत्युद्गरछेत् । विध्यर्थे लिङ॥ अ०-वधूः भक्तिमती, प्रयता च, (सती), अर्चिताम्, एनाम्, प्रातः, आ, तपोवनाद्, अन्वेतु, सायम्, अपि, प्रत्युद्वजेद् । वा०-वध्वा च भक्तिमत्या प्रयतया 'सत्या' अर्चितया प्रातरा तपोवनादन्वीयतां सायमपि प्रत्युव्रज्येत ॥ सुधा-वधूः स्नुषा, शिष्यपन्यां पुत्रवधूवद्वयवहारात् सुदक्षिणेत्यर्थों बोध्यः भक्तिमती श्रद्धावती । प्रयता पवित्रा, बाह्याभ्यन्तरशुद्धियुक्तेत्यर्थः । चअपि, समुच्चयार्थकश्चशब्दोऽत्र बोध्यः । सतीति शेषः । अर्चिताम् = पूजितां, गन्धपुष्पादिभिरिति शेषः। एनां पूर्वोक्तां, नन्दिनीमिति यावत् । प्रातःप्रभाते, काल इति शेषः। आ तपोवनात् आ तपोवनम्, मर्यादायामाङो योगे पञ्चमीविधानाद् वशिष्ठमहर्षेस्तपोवनसीमापर्यन्तमित्यर्थो ज्ञेयः। अन्वेतु अनुयातु । नन्दिन्याः पश्चाद्गमनं करोत्विति भावः। सायं-सन्ध्यासमये । अपि-अन्वाचयार्थकोऽपिः प्रत्युव्रजेत् = प्रत्युद्यायात् , प्रातर्वनगमनसमये नन्दिन्या अनुगमनं तपोवनसीमाप्रदेशपर्यन्तं करोतु, सायमागमनसमये तपोवनसीमाप्रदेशं गत्वा तदीयं स्वागतं करोत्विति "स-तपनं, तप्यतेऽनेन वेति तपः, वनतीति वनं तपसे वनं तपोवनं तस्मात् तपोवनात् ॥ को०-'वधूर्जाया स्नुषा स्त्री च' इत्यमरः । 'भक्तिः सेवागौणवृत्त्योर्भङ्गयां श्रद्धाविभागयोः' इत्यनेकार्थसंग्रहः । 'आङीषदर्थेऽभिव्याप्तौ सीमायें धातुयोगजे' इत्यमरः। ता०-वधूः सुदक्षिणाऽपि श्रद्धासमन्विता, बाह्याभ्यन्तरशुद्धिमती सती प्रथाs. धिगतगन्धादिभिः पूजोपकरणैः पूजितामेनां नन्दिनीं प्रातःकाले तपोवनसीमापर्यन्तमन्वेतु, सायकालेऽपि वनात् तदागमनसमय तपोवनसीमाप्रदेशे स्वागतार्थ स्थिता सती चैनामभिनन्द्य स्वाश्रममानयतु । भावः॥

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149