________________
रघुवंशमहाकाव्यम्
[प्रयम:भवतु चेत् तदा त्वमपि तावत् स्थितो भव । यदा च क्वचिदुपविष्टा स्यात् तदा त्वमपि तत्रैव समुपविश। यदा च तृषाऽऽर्ता क्वचित् सलिलं पिबतु तदेव त्वमपि सलिलं पिब । न तु, तृषाऽऽत्तॊऽपि कदाचित् ततः प्राग जलं पिव ॥ ___ इन्दुः-हे राजन् ! इस (नन्दिनी) के चलने पर तुम (इसके पीछे २) चलो, ठहरने पर ठहरो, बैठने पर बैठो और पानी पीने पर पानी पीओ ॥ ८९॥ ®साम्प्रतं नन्दिनीपरिचर्यायां सुदक्षिणयाऽनुष्ठास्यमानं कर्म ब्रवन्नाह
वधूभक्तिमती चैनामचितामा तपावनात् ।
प्रयता प्रातरन्वेतु सायं प्रत्युबजेदपि ।। ६०॥ सञ्जी०-वधूर्जाया च भक्तिमती गन्धादिभिरर्चितामेनां प्रातरा तपोवनात् । आङ्मर्यादायाम् । पदद्वयं चैतत् । अन्वेत्वनुगच्छतु । सायमपि प्रत्युद्वजेत्प्रत्युद्गरछेत् । विध्यर्थे लिङ॥
अ०-वधूः भक्तिमती, प्रयता च, (सती), अर्चिताम्, एनाम्, प्रातः, आ, तपोवनाद्, अन्वेतु, सायम्, अपि, प्रत्युद्वजेद् । वा०-वध्वा च भक्तिमत्या प्रयतया 'सत्या' अर्चितया प्रातरा तपोवनादन्वीयतां सायमपि प्रत्युव्रज्येत ॥
सुधा-वधूः स्नुषा, शिष्यपन्यां पुत्रवधूवद्वयवहारात् सुदक्षिणेत्यर्थों बोध्यः भक्तिमती श्रद्धावती । प्रयता पवित्रा, बाह्याभ्यन्तरशुद्धियुक्तेत्यर्थः । चअपि, समुच्चयार्थकश्चशब्दोऽत्र बोध्यः । सतीति शेषः । अर्चिताम् = पूजितां, गन्धपुष्पादिभिरिति शेषः। एनां पूर्वोक्तां, नन्दिनीमिति यावत् । प्रातःप्रभाते, काल इति शेषः। आ तपोवनात् आ तपोवनम्, मर्यादायामाङो योगे पञ्चमीविधानाद् वशिष्ठमहर्षेस्तपोवनसीमापर्यन्तमित्यर्थो ज्ञेयः। अन्वेतु अनुयातु । नन्दिन्याः पश्चाद्गमनं करोत्विति भावः। सायं-सन्ध्यासमये । अपि-अन्वाचयार्थकोऽपिः प्रत्युव्रजेत् = प्रत्युद्यायात् , प्रातर्वनगमनसमये नन्दिन्या अनुगमनं तपोवनसीमाप्रदेशपर्यन्तं करोतु, सायमागमनसमये तपोवनसीमाप्रदेशं गत्वा तदीयं स्वागतं करोत्विति
"स-तपनं, तप्यतेऽनेन वेति तपः, वनतीति वनं तपसे वनं तपोवनं तस्मात् तपोवनात् ॥
को०-'वधूर्जाया स्नुषा स्त्री च' इत्यमरः । 'भक्तिः सेवागौणवृत्त्योर्भङ्गयां श्रद्धाविभागयोः' इत्यनेकार्थसंग्रहः । 'आङीषदर्थेऽभिव्याप्तौ सीमायें धातुयोगजे' इत्यमरः।
ता०-वधूः सुदक्षिणाऽपि श्रद्धासमन्विता, बाह्याभ्यन्तरशुद्धिमती सती प्रथाs. धिगतगन्धादिभिः पूजोपकरणैः पूजितामेनां नन्दिनीं प्रातःकाले तपोवनसीमापर्यन्तमन्वेतु, सायकालेऽपि वनात् तदागमनसमय तपोवनसीमाप्रदेशे स्वागतार्थ स्थिता सती चैनामभिनन्द्य स्वाश्रममानयतु ।
भावः॥