________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् |
इन्दूः-और वधू 'सुदक्षिणा' भक्ति 'श्रद्धा' से युक्त पवित्र मन होकर 'गन्धादिकों से 'पूजित इस नन्दिनी के पीछे-पीछे प्रातःकाल तपोवन की सीमा तक 'वन में पहुँचाने के लिए' जावे, और सायङ्काल भी तपोवन की सीमा पर जाकर इसका स्वागत करे ॥ ९०॥ नन्दिनीपरिचर्याऽवधिं निर्दिशन्नाह
इत्या प्रसादादल्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ।। ६१ ॥ सञ्जी०-इतीति । इत्यनेन प्रकारेण त्वमा प्रसादात्प्रसादपर्यन्तम् । 'आमर्यादाभिविध्योः' इत्यस्य वैभाषिकत्वादसमासत्वम् । अस्या धेनोः परिचर्यापरः शुश्रषापरो भव । ते तवाविध्न विध्नस्याभावोऽस्तु । 'अव्ययं विभक्तिसमीषसमृद्धिवृद्धयर्याभाव०' इत्यादिनाऽर्थाभावेऽव्ययीभावः । पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसा. यामिनिप्रत्ययः । धुर्यग्रे स्थेयास्तिप्ठः। आशीरर्थे लिङ। 'एलिङि' इत्याकारस्यैकारादेशः । त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः ॥
अ०-इति, त्वम्, आ, प्रसादाद्, अस्याः, परिचर्यापरः, भव, ते, अविध्नम्, अस्तु, पिता, इव, पुत्रिणां, धुरि, स्थेयाः। वा०-इति त्वया, आ प्रसादादस्याः परिचर्यापरेण भूयतां तेऽविध्नेन भूयताम, पुत्रिणां धुरि पित्रेव स्थीयताम् ।।
सुधा-इति-इत्थम् अमुना प्रकारेणेत्यर्थः । त्वम् भवान्, आ प्रसादाप्रसा दपर्यन्तं, यावन्न प्रसन्ना भूत्वा पुत्राप्तिरूपं वरं प्रयच्छेत् तावदिति भावः । अस्याः= नन्दिन्याः, कामधेनुसुताया इति यावत् । परिचर्यापरः= उपासनातत्परः, भव-भवः, ते तव, अविन-विघ्नाभावः, अस्तु = स्यात्, पिताजनकः, इव = यथा, पुत्रिणां= सत्सुतवतां, धुरि = यानमुखे, अग्र, इति भावः। स्थेयाः तिष्ठताद्, अस्याः प्रसादाप्तिपर्यन्तं त्वं पूर्वोक्तप्रकारेणेमां प्रेमतः परिचर, तथा तव धेनुपरिचर्याऽवसरे विघ्ना. नामनुत्पत्तिरस्तु, अपि च, यथा तव पिता स्वादृशं सुतमवाष्य सत्पुत्रवतां श्लाघ्योऽभूत् तथैव त्वमषि, स्वसदृशं सूनुमवाप्नुहि-इति मदीया आशिषः सन्तीति भावः।
स०-पुनन्ति पूयन्ते वा पुत्राः। प्रशस्ताः पुत्राः सन्त्येषामिति पुत्रिणस्तेषां पुत्रिणाम्।
को०–'प्रसादस्तु प्रसन्नता' इति । 'आङीषदर्थेऽभिव्याप्तौ सीमाऽर्थे धातुयोगजे' इति । 'वरिवस्या तु शुश्रूषा परिचर्याऽप्युपासना' इति चामरः। __ ता०-इत्युक्तप्रकारेण त्वमस्या नन्दिन्याः प्रसन्नतावाप्तिपर्यन्तं शुश्रषां कुरु, तव परिचर्याकरणकाले विघ्ननाशो भवतु, आत्मतुल्यसत्पुत्रशाली भव ।
इन्दुः-इस प्रकार से तुमसे जब तक यह नन्दिनी प्रसन्न न होवे, तब तक इसकी सेवा करने में तत्पर रहो, 'तुम्हारे विघ्नों का अभाव रहे (अर्थात् तुम्हें विघ्नों का सामना न करना पड़े), पिता के समान तुम भी अच्छे पुत्रवालों में मुख्य होओ (अर्थात् तुम्हे अपने समान पुत्र प्राप्त हो)॥ ११ ॥