________________
७६
रघुवंशमहाकाव्यम् -
* राज्ञो दिलीपस्य सप्रेम गुरोराज्ञाग्रहणमाह
[ प्रथमः
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शास्त्रितुरानतः ॥ ६२ ॥
(स० - तथैतीति । देशकालज्ञः । देशोऽग्निसन्निधिः, कालोऽग्निहोत्रावसानसमयः । विशिष्टदेशकालोत्पन्नमार्पज्ञानमव्याहतमिति जानन् अत एव प्रीतिमाशिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । आनतो विनयनम्रः सन् शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार ।
अ० -- देशकालज्ञः, 'अत एव' प्रीतिमान्, शिष्यः सपरिग्रहः आनतः, 'सन्' शासितुः, आदेशं, तथा, इति, प्रतिजग्राह । वा०- देशकालज्ञेन 'अत एव' प्रीतिमता शिष्येण सपरिग्रहेणानतेन 'सता' शासितुरादेशस्तथेति प्रतिजगृहे ।
सुधा – देशकालज्ञः=वह्निसन्निध्यग्निहोत्रान्तसमयाभिज्ञः; अग्निसन्निधौ तथाs ग्निहोत्रावसानसमये ब्रह्मपुत्रेण महर्षिणा वशिष्ठेन प्रोक्तं 'तव पुत्रो भविष्यति' इत्याकारकं वचनं श्रुत्वा जातविश्वास इति भावः । 'अत एव' प्रीतिमान् = हर्षयुक्तः अवश्यं भाविपुत्रोत्पत्त्या प्रहृष्टचित्त इति भावः । शिष्यः = छात्रः, दिलीप इति यावत् । सपरिग्रहः = सपत्नीकः, सुदक्षिणासहित इत्यर्थः । आनतः=विनयावनतः, सन्निति शेषः । शासितुः = शासनकर्तुः, गुरोर्वशिष्टस्येति यावद् । आदेशम् = आज्ञां, 'नन्दिनीपरिचय सपत्नीकस्त्वं सादरं कुरु' इत्यात्मकमिति भावः । तथेति तेन प्रकारेणैवास्तु तवा देशपालनमिति, उक्त्वेति शेषः । प्रतिजग्राह = अङ्गीचकार, स्वीकृत - चानित्यर्थः ।
स० - देशश्च कालश्चेति देशकालौ तौ जानातीति देशकालज्ञः ।
को० - 'मुरप्रीतिः प्रमदो हर्पः प्रमोदामोदसम्मदाः' इति । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इति । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः ।
ता० - भग्निसन्निधिरिति देशस्य तथाऽग्निहोत्रावसानमिति समयस्य च ज्ञाता, अर्थादित्थंभूते देशे काले च महर्पिणोक्तं वचनं पुत्रप्राप्तिर्भविष्यतीत्याकारकं कदापि मृषा न भविष्यत्यत एव प्रसन्नः सुदक्षिणासहितो दिलीपो विनयावनतकन्धरः सन् निजगुरोर्नन्दिनीपरिचर्या करणरूपामाज्ञां 'यथा भवदीयाऽऽज्ञा तथैव करिष्ये' इत्युक्त्वा स्वीचकार ।
इन्दुः- देश और काल के जाननेवाले अत एव प्रसन्न शिष्य राजा दिलीप ने पत्नी 'सुदक्षिणा' के सहित विनय से नम्र होते हुए' उपदेश करने वाले गुरु की आज्ञा को 'वैसा ही हो' यह कह कर स्वीकार किया ॥ ९२ ॥
अथ रात्रिकालं विज्ञाय दिलीपशयनार्थं वशिष्ठानुशासनमाह
अथ प्रदोपे दोषज्ञः संवेशाय विशांपतिम् । सूनुः सूनृतवाक्त्रष्टुर्विससर्जोजितश्रियम् ॥ ६३ ॥