________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । __ सञ्जी०-अथेति । अथ प्रदोपे रात्री दोषज्ञो विद्वान्। 'विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः । सूनृतवाक् सत्यप्रियवाक्। 'प्रियं सत्यं च सूनृतम्' इति हलायुधः। स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः। अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति । ऊर्जितश्रियं । विशांपतिं मनुजेश्वरम् । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः। संवेशाय निद्रायै । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि' इत्यमरः । विससर्जाज्ञापयामास । ___ अ०-अथ, प्रदोषे, दोषज्ञः, सूनृतवाक्, स्रष्टुः, सूनुः, ऊर्जितश्रियं, विशांपतिं, संवेशाय विससर्ज। वा०-अथ प्रदोपे दोषज्ञेन सूनृतवाचा स्रष्टुः सूनुनोर्जितश्रीविशांपतिः संवेशाय विससृजे ।
सुधा-अथ = अनन्तरं, तथाऽस्त्वित्युक्त्या गुरोराज्ञाग्रहणानन्तरमिति भावः। ज्ञानवान् सर्वज्ञ इति यावत् । सूनृतवाक्-प्रियसत्यवचनः, स्रष्टुः प्रजापतेः, ब्रह्मण इति यावत् । सूनुः पुत्रः, मानसपुत्रो वशिष्ठ इत्यर्थः। ऊर्जितश्रियंप्रवृद्धशोभ, पुत्रप्राप्त्युपायाकर्णनेन प्रसन्नवदनमिति भावः । विशापतिं = मनुजानां स्वामिनं, राजानं दिलीपमित्यर्थः । संवेशाय-स्वापार्थ, विससर्ज = व्यसृजत् , निद्रायै समादिशदित्यर्थः।
स-सूनृता वाग्यस्य स सूनृतवाक् , अर्जिता श्रीर्यस्य स ऊर्जितश्रीस्तमूर्जित___ को-'मङ्गलानन्तरारम्भप्रश्नकास्न्येष्वथो अथ' इति । 'प्रदोषो रजनीमुखम्' इति । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि' इति । 'आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी' इति सर्वत्राप्यमरः। ___ ता०-तथाऽस्त्वित्युक्त्वा पुत्राप्तिकामनया नन्दिनीपरिचर्याऽऽत्मकवशिष्ठमुनिनिर्देशग्रहणानन्तरं रात्रेः प्रथमप्रहरे सर्वज्ञः सत्यप्रियभाषणशीलो ब्रह्मणो मानसपुत्रो वशिष्ठो राजानं दिलीपं शयनार्थमादिदेश ॥ ___ इन्दुः-उसके (गुरु वशिष्ठ की आज्ञा ग्रहण करने के) वाद रात्रि के प्रथम प्रहर होने पर (प्रत्येक विषय के) दोषों को जाननेवाले (सर्वज्ञ) तथा सत्य और प्रियभाषी ब्रह्मा के (मानस) पुन (वशिष्ठ ऋषि) ने राजा दिलीप को सोने के लिए आज्ञा दी ॥ ९३ ॥ महार्वशिष्ठस्य दिलीपाय मुनिजनाहंसामग्रीसम्पादनमाह
सत्यामपि तपःसिद्धी नियमापेक्षया मुनिः। _कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ ४॥ सञ्जी०-सत्यामिति । कल्पविद्वतप्रयोगाभिज्ञो मुनिः । तपःसिद्धौ सत्यामपि। तपसैव राजयोग्याहारसंपादनसामर्थ्य सत्यपीत्यर्थः । नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया । अस्य राज्ञो वन्यामेव । संविधीयतेऽनयेति संविधाम् । कुशादिशयनसामग्रीम् । 'आतश्योपसर्गे' इति कप्रत्ययः। 'अकर्तरि च कारके संज्ञायाम्' इति
श्रियम्।