Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 76
________________ ७२ रघुवंश महाकाव्यम् - [ प्रथम प्राप्तिरूपस्येति यावत् । सिद्धिं = निष्पत्तिं फलस्येति शेषः । अदूरवर्त्तिनीं = समीप - स्थायिनों, स्वल्पकालभाविनीमिति यावद् । विगणय = अवेहि, यद् = यस्मात्करणात्, कल्याणी=मङ्गलमूर्तिः, कल्याणकारिणीति भावः । इयं = पुरोवर्त्तिनी, नन्दि नीति यावद् | नाग्नि = स्वकीयनन्दिनीत्यभिधाने, कीर्त्तिते= उच्चारिते, सति' इति शेषः । एव = अवधारणे, तत्काल एव न तु विलम्वादिति भावः । उपस्थिता = उपागता । सन दूरमदूरं तस्मिन्नदूरे भदूरे वर्त्तितुं शीलमस्याः साऽदूरवर्त्तिनी तामदूरबत्र्त्तिनीम् । नम्यतेऽभिधीयतेऽर्थोऽनेनेति नाम तस्मिन् नाम्नि | को०- 'राजा राट् पार्थिवचमाभृन्नृपभूपमहीक्षितः' इत्यमरः । ' आख्यान अभिधानं च नामधेयं चे नाम च' इत्यमरः । 'यत्तद्यतस्ततो हेतौ' इत्यमरः । ता०-हे राजन् ! त्वमात्मनोऽभीष्टसिद्धिं शीघ्रभाविनीं विद्धि यतो नामसङ्की तन क्षण एव तव मङ्गलमूर्त्तिरियं धेनुरकस्मादुपागता ॥ इन्दुः- हे महाराज ! आप अपने पुत्रप्राप्ति रूप कार्य की सिद्धि को निकट आई समझें। क्योंकि यह ( सामने आती हुई ) कल्याणमूर्त्ति नन्दिनी नाम लेते ही उपस्थित हुई ॥ ८७ ॥ *पुत्रप्राप्त्यर्थं नन्दिनी परिचर्यामुपदिशन्नाह वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् । विद्यामभ्यवनेनेव प्रसादयितुमर्हसि ॥ ८८ ॥ सञ्जी० - वन्यवृत्तिरिति । वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथा भूतः सन् । इमां शश्वत्सदा । आ प्रसादादविच्छेदेनेत्यर्थः । आत्मनस्तव कर्तुः । अनुगमनेनानुसरणेन । अभ्यसनेनानुष्ठातुरभ्यासेनं विद्यामिव प्रसादयितुं प्रसन्नां कर्तुं मर्हसि । अ० - वन्यवृत्तिः, (सन् ) इमां, गां, शश्वद्, आत्मानुगमनेन, अभ्यसनेन, विद्याम्, इव, प्रसादयितुम् अर्हसि ॥ वा० - ( त्वया ) वन्यवृत्तिना ( सता ) शश्वदात्मानुगमनेनेयं गौरभ्यसनेन विद्येव प्रसादयितुमते ॥ 3 सुधा - वन्यवृत्तिः = अरण्योद्भवाजीवः, कन्दमूलादिभक्षणेन प्राणधारणं कुर्वाणः सन्नित्यर्थः । इमाम् = एनां सम्मुखस्थामित्यर्थः । गां-धेनुं नन्दिनीमिति यावद् । शश्वद्=अभीक्ष्णं तत्प्रसादावधि प्रत्यहमविच्छेदेनेत्यर्थः । आत्मानुगमनेन = स्वकर्तृ कानुसरणेन, अभ्यसनेन = पुनः पुनरुपस्थितिक्ररणेन, अनुष्ठातुरिति शेषः । विद्यां : न्यायादिशाखज्ञानम् इव = यथा, प्रसादयितुं = सन्तोषयितुं, सन्तुष्टां कर्तुमिति यावद् | अर्हसि = योग्योऽसि ॥ ८८ ॥ - स०--वने साधु वन्यं वनोद्भवं कन्दमूलादिकं वृत्तिर्भोजनं यस्य स वन्यवृत्तिः ( ब० बी० ) । आत्मनोऽनुगमनमात्मानुगमनं तेन आत्मानुगमनेन ( त० पु० ) । गच्छतीति गौस्तां गाम् (स्त्री० ) । विदन्त्यनया विद्या तां विद्याम् (स्त्री० ) ॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149