________________
७२
रघुवंश महाकाव्यम् -
[ प्रथम
प्राप्तिरूपस्येति यावत् । सिद्धिं = निष्पत्तिं फलस्येति शेषः । अदूरवर्त्तिनीं = समीप - स्थायिनों, स्वल्पकालभाविनीमिति यावद् । विगणय = अवेहि, यद् = यस्मात्करणात्, कल्याणी=मङ्गलमूर्तिः, कल्याणकारिणीति भावः । इयं = पुरोवर्त्तिनी, नन्दि नीति यावद् | नाग्नि = स्वकीयनन्दिनीत्यभिधाने, कीर्त्तिते= उच्चारिते, सति' इति शेषः । एव = अवधारणे, तत्काल एव न तु विलम्वादिति भावः । उपस्थिता =
उपागता ।
सन दूरमदूरं तस्मिन्नदूरे भदूरे वर्त्तितुं शीलमस्याः साऽदूरवर्त्तिनी तामदूरबत्र्त्तिनीम् । नम्यतेऽभिधीयतेऽर्थोऽनेनेति नाम तस्मिन् नाम्नि |
को०- 'राजा राट् पार्थिवचमाभृन्नृपभूपमहीक्षितः' इत्यमरः । ' आख्यान अभिधानं च नामधेयं चे नाम च' इत्यमरः । 'यत्तद्यतस्ततो हेतौ' इत्यमरः ।
ता०-हे राजन् ! त्वमात्मनोऽभीष्टसिद्धिं शीघ्रभाविनीं विद्धि यतो नामसङ्की तन क्षण एव तव मङ्गलमूर्त्तिरियं धेनुरकस्मादुपागता ॥
इन्दुः- हे महाराज ! आप अपने पुत्रप्राप्ति रूप कार्य की सिद्धि को निकट आई समझें। क्योंकि यह ( सामने आती हुई ) कल्याणमूर्त्ति नन्दिनी नाम लेते ही उपस्थित हुई ॥ ८७ ॥
*पुत्रप्राप्त्यर्थं नन्दिनी परिचर्यामुपदिशन्नाह
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् । विद्यामभ्यवनेनेव प्रसादयितुमर्हसि ॥ ८८ ॥
सञ्जी० - वन्यवृत्तिरिति । वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथा भूतः सन् । इमां शश्वत्सदा । आ प्रसादादविच्छेदेनेत्यर्थः । आत्मनस्तव कर्तुः । अनुगमनेनानुसरणेन । अभ्यसनेनानुष्ठातुरभ्यासेनं विद्यामिव प्रसादयितुं प्रसन्नां कर्तुं मर्हसि ।
अ० - वन्यवृत्तिः, (सन् ) इमां, गां, शश्वद्, आत्मानुगमनेन, अभ्यसनेन, विद्याम्, इव, प्रसादयितुम् अर्हसि ॥ वा० - ( त्वया ) वन्यवृत्तिना ( सता ) शश्वदात्मानुगमनेनेयं गौरभ्यसनेन विद्येव प्रसादयितुमते ॥
3
सुधा - वन्यवृत्तिः = अरण्योद्भवाजीवः, कन्दमूलादिभक्षणेन प्राणधारणं कुर्वाणः सन्नित्यर्थः । इमाम् = एनां सम्मुखस्थामित्यर्थः । गां-धेनुं नन्दिनीमिति यावद् । शश्वद्=अभीक्ष्णं तत्प्रसादावधि प्रत्यहमविच्छेदेनेत्यर्थः । आत्मानुगमनेन = स्वकर्तृ कानुसरणेन, अभ्यसनेन = पुनः पुनरुपस्थितिक्ररणेन, अनुष्ठातुरिति शेषः । विद्यां : न्यायादिशाखज्ञानम् इव = यथा, प्रसादयितुं = सन्तोषयितुं, सन्तुष्टां कर्तुमिति यावद् | अर्हसि = योग्योऽसि ॥ ८८ ॥
-
स०--वने साधु वन्यं वनोद्भवं कन्दमूलादिकं वृत्तिर्भोजनं यस्य स वन्यवृत्तिः ( ब० बी० ) । आत्मनोऽनुगमनमात्मानुगमनं तेन आत्मानुगमनेन ( त० पु० ) । गच्छतीति गौस्तां गाम् (स्त्री० ) । विदन्त्यनया विद्या तां विद्याम् (स्त्री० ) ॥