________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । सञ्जी०-तामिति । निमित्तज्ञः शकुनज्ञस्तपोनिधिर्वशिष्ठः पुण्यं दर्शनं यस्यास्तां धेनुं दृष्ट्वा । आशंसितं मनोरथः। नपुंसके भावे क्तः। तत्राबन्ध्यं सफलं प्रार्थन यस्य स तम् । अबन्ध्यमनोरथमित्यर्थः। याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत् ॥ ___अ०-निमित्तज्ञः, तपोनिधिः, पुण्यदर्शनां, तां दृष्ट्वा, आशंसिताबन्ध्यप्रार्थनं, याज्यम्, पुनः, अब्रवीत् ॥ वा०-निमित्तज्ञेन तपोनिधिना पुण्यदर्शनां तां दृष्ट्वाऽऽशंसिताबन्ध्यप्रार्थनो याज्यः पुनरोच्यत ॥
सुधा-निमित्तज्ञः = लक्ष्मविद्,शुभाशुभलक्षणज्ञ इति भावः । 'शकुनज्ञः' इति यावत् । तपोनिधिः =धर्मशेवधिः, वशिष्ठ इत्यर्थः। पुण्यदर्शनाम् = पवित्रावलोकनां, तांनन्दिनी, दृष्ट्वा=वीचय, आशंसिताबन्ध्यप्रार्थनम् मनोरथसफलावेदनकं, सफलाभिलाषमिति भावः। याज्यं याजनयोग्यं 'यजमानं दिलीपम्' इति भावः। पुनः= भूयः, अब्रवीत् = उवाच । नन्दिनीसेवावर्णनसमये तदागमनरूपशकुनेन दिलीपस्य सफलीभबिष्यन्तम् मनोरथं ज्ञात्वा, आहेति भावः॥
स०-निधीयतेऽस्मिन्निति निधिः तपसांनिधिस्तपोनिधिः। अफलम्बध्नातीति बन्ध्या न बन्ध्येत्यबन्ध्या आशंसितेऽबन्ध्या आशंसिताबन्ध्या आशंसितावन्ध्या प्रार्थना यस्य स आशंसितावन्ध्यप्रार्थनः तमाशंसितावन्ध्यप्रार्थनम् ॥ ___ को०-पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः' इति विश्वः । 'निमित्तं हेतुलक्मणोः' इत्यमरः । 'तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च' इति विश्वः । ____ ता०-शकुनशास्त्रवेत्ता वशिष्ठो मुनिस्तां नन्दिनीमवलोक्यात एव सफलमनोरथं दिलीपं सम्भाव्य सम्प्रति पुनरुवाच ॥
इन्दुः-शकुनशास्त्र के जाननेवाले, तपोनिधि 'वशिष्ठजी' पवित्र (सुन्दर) दर्शनवाली, 'उस नन्दिनी' को देखकर 'पुत्रप्राप्तिरूप' मनोरथ के विषय में सफल है प्रार्थना जिसकी, ऐसे, यज्ञ कराने के योग्य (यजमान) 'राजा दिलीप' से फिर बोले ॥८६॥ किमब्रवीदित्यालायां सफलमनोरथत्वे हेतुं प्रदर्शयन्नाह
अदूरवर्तिनी सिद्धि राजान्वगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ।। ८७ ॥ सञ्जी०-अदूरवर्तिनीमिति । हे राजन् ! भात्मनः कार्यस्य सिद्धिमदूरवर्तिनी शीघ्रभाविनी विगणय विद्धि । यद्यस्मात्कारणात्कल्याणी मङ्गलमूर्तिः। 'बह्वादिभ्यश्च' इति डीप । इयं धेनुर्नाम्नि कीर्तिते कथिते सत्येवोपस्थिता ॥
अ०-राजन् ! आत्मनः, सिद्धिम्, अदूरवर्तिनी, विगणय, यत्, कल्याणी, इयं नाम्नि, कीर्तिते, 'सति' एव, उपस्थिता ॥ वा०-हे राजन् ! (त्वया) आत्मनः सिद्धिरदूरवर्तिनी विगण्यतां, यत् कल्याण्याऽनया नाग्नि कीर्तित एवोपस्थितयाऽभूयत॥
सुधा हे राजन् ! हे नृप ! हे दिलीप ! इति यावद् । आत्मनःप्रयत्नस्य, पुत्रः