________________
रघुवंशमहाकाव्यम्
[प्रथम ___ ता-ईषदुष्णेन यज्ञान्तस्नानार्थकजलादपि पवित्रेण वत्सदर्शनेन प्रवहता क्षीरा भिप्यन्दनेन पृथ्वी सिञ्चन्ती, अतएव-स्थालीसदृशपीनस्तनीनन्दिनी वनादाववृते॥
इन्दुः-कुछ गरम, यज्ञ के अन्त में इष्टिपूर्वक स्नानार्थ जल से भी पवित्र बछड़े के देखने से बहते हुये दूध के टपकने से पृथिवी को सींचती हुई, अत एव वटलोई की भाँति मोटे थनोंवाली 'नन्दिनी वन से लौटी' ॥ ८४ ॥ अनन्दिन्याः खुरोद्धृतरजसां पूतत्ववर्णनपूर्वकं तां विशिनष्टि
रजःकणैः खुराधूतैः स्पृद्भिगोत्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ।। ८५ ॥ सञ्जी०-रज इति । खुरोधूतैरन्तिकात्समीपे गात्रं स्पृशद्भिः । 'दूरान्तिकार्थ भ्यो द्वितीया च' इति चकारात्पञ्चमी। रजसां कणैः । महीं क्षियत ईष्ट इति महीं वित्तस्य । तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम् । शुद्धिमादधाना कुर्वाणा । एतेन वायव्यं स्नानमुक्तम् । उक्तं च मनुना-आग्नेयं भस्मना स्नानमवगाह्यं तु वारू. णम् । आपो हिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥ इति ॥
अ०-खुरोधूतैः, अन्तिकाद्, गात्रं, स्पृशद्भिः, रजःकणैः, महीक्षितः, तीर्थाभि षेकजां, शुद्धिम्, आदधाना, 'वनादाववृते' ॥ वा०-खुरोधूतैरन्तिकाद् गात्रं स्पृशद्धी रजःकणैर्महीक्षितस्तीर्थाभिपेकजां शुद्धिमादधानया 'वनादाववृते॥
सुधा खुरोधूतैः = शफोत्थैः, अन्तिकात् =समीपे, गात्रं वपुः, स्पृशद्भिःस्पर्श कुर्वद्भिः, रजःकणैः रेण्वतिसूचमांशेः, महीक्षितः नृपस्य, दिलीपस्येति यावत्। तीर्थाभिषेकजां= अध्वराभिपेचनसम्भवां, शुद्धिं = पवित्रताम्, आदधाना=कुर्वाणा, एतेन वायव्यं स्नानमुक्तं, 'वनादाववृते' इति पूर्वेणान्वयः॥
स०-खुरन्ति विलिखन्ति चमामिति खुराः तैरुद्धृताः खुरोधूतास्तैः खुरोद् धूतः, अभिषेचनमभिषेकः, तीर्थस्याभिषेकस्तीर्थाभिषेकः, तस्माजाता तीर्थाभिपे कजा तां तीर्थाभिषेकजाम् (स्त्री०)
को–'रेणुद्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इति । 'शर्फ क्लीवे खुरः पुमान्' इति । चामरः। ___ ता-खुरोत्थैरत एव समीपवर्तित्वाद् राज्ञो दिलीपस्थ गात्रं स्पृशद्भिः पांसुभिः पवित्रजलाभिपेकजनितां शुद्धिं विदधती 'नन्दिनी वनादाववृते । __ इन्दुः-खुरों से उठी हुई, अत एव समीप होने के कारण शरीर को स्पर्श करती हुई, धूलि के कणों से राजा दिलीप की, ऋषियों से सेवित तीर्थसम्बन्धी जल में स्नान करने से उत्पन्न शुद्धि को करती हुई 'नन्दिनी वन से लौटी' ॥८॥ तां दृष्ट्वा वशिष्ठः पुनर्दिलीपं प्रत्याह
तां पुण्यदर्शनां दृष्ट्वा निमित्त ज्ञस्तपोनिधिः । याज्यमाशंसिताबन्ध्यप्रार्थनं पुनरब्रवीत् ॥८६॥