________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । ६६ स०-श्वेतानि च तानि रोमाणि श्वेतरोमाणि श्वेतरोमाण्येवाङ्कः श्वेतरोमाङ्कः तं श्वेतरोमाङ्कम् । सम्यग ध्यायन्त्यस्यामिति सन्ध्या।
को०-'आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि' इति । 'पल्लवोऽस्त्री किसलयम्' इति । 'चिक्कणम् मसृणं स्निग्धम्' इति । 'श्वेतरक्तस्तु पाटलः' इति । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः। अवदातः सितो गोरो वलक्षो धवलोऽर्जुनः' इति चामरः। ___ ता०-नूतनपल्लववत् चिक्कणश्वेतमिश्ररक्तवर्णा यथा सन्ध्या द्वितीयाचन्द्र धारयन्ती स्थिता तथैव नन्दिन्यपि ललाटोद्भूतमीषद्वकं श्वेतरोमाकं धारयन्ती मुनिसमीपे वनात्परावृत्य स्थिता ॥ ___ इन्दुः-पल्लव की तरह चिक्कण श्वेतयुक्त लाल रगवाली, ललाट में उत्पन्न नये, कुछ टेढ़े सफेद रोयें रूपी चिह्न को धारण करती हुई, अत एव द्वितीया के चन्द्रमा को धारण करती हुई सन्ध्या के समान वह नन्दिनी (वन से लौट कर आई)॥८३॥ पुनरपि धेनुवर्णनप्रसङ्गेनाह
भुवं कोष्णेन कुण्डोनी मेध्येनावभृथादपि ।
प्रस्नवेनाभिवषेन्ती वत्सालोकप्रवर्तिना ॥ २४ ॥ सञ्जी०-भुवमिति । कोष्णेन किंचिदुष्णेन । 'कवं चोष्णे' इति चकारात्कादेशः। अवभृथादप्यवभृथस्नानादपि मेध्येन पवित्रेण । 'पूतं पवित्रं मेध्यं च' इत्यमरः। वत्सस्यालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता । प्रस्त्रवेन क्षीराभिष्यन्दनेन भुवमभिव. पन्ती सिञ्चन्ती। कुण्डमिवोध आपीनं यस्याः सा कुण्डोध्नी । 'ऊधस्तु क्लीबमापीनम्' इत्यमरः । 'ऊधसोऽनङ' इत्यनङादेशः । 'बहुव्रीहेरूधसो ङीष् ॥ ___ अ०-कोपणेन, अवभृथाद्, अपि मेध्येन, वत्सालोकप्रवर्तिना, प्रसवेन, भुवम्, अभिवर्षन्ती, कुण्डोध्नी, 'नन्दिनी, वनाद् , आववृते'। वा०-कोष्णेनावभृथादपि मेध्येन वत्सालोकप्रवर्तिना प्रस्त्रवेन भुवमभिवर्षन्त्या कुण्डोन्या 'वनादाववृते' ॥
सुधा-कोप्णेन = ईषदुष्णेन, अवभृथाद् =दीक्षाऽन्ताद्, यज्ञे दीक्षायाः समापकादिष्टिपूर्वकस्नानविशेषादित्यर्थः। अपिसमुच्चये, मेध्येन= पूतेन, वत्सालोकप्रवर्त्तिनाशकृत्करिपुत्रदर्शनप्रवहता, प्रस्रवेन =अभिव्यन्देन, क्षीरस्येति शेषः । भुवं भूमिम्, अभिवर्षन्ती = सिञ्चन्ती, कुण्डोध्नी = स्याल्युपमापीनवती, 'सा नन्दिनी वनादाववृते' पूर्वश्लोकेनान्वीयते ॥
अ०-आ समन्ताल्लोकनमालोकः, प्रकर्षेण वर्तितुं शीलमस्येति प्रवर्ती, बत्सस्यालोको वत्सालोकः तेन प्रवर्ती वत्सालोकप्रवर्ती तेन वत्सालोकप्रवर्तिना ॥
को०-'कोष्णं कवोष्णं मन्दोष्णम्' इति । 'पिठरः स्थाल्युखा कुण्डम्' इति । 'ऊधस्तु क्लीवमापीनम्' इति । 'दीक्षान्तोऽवभृथो यज्ञे' इति । 'शकृत्करिस्तु वत्सः स्वाद' इति सर्वत्राप्यमरः॥