________________
६८ रघुवंशमहाकाव्यम्
[प्रथम अ०-इति वादिनः, एव, होतुः, अस्य, आहुतिसाधन' नन्दिनी, नाम, अनिन्ध धेनुः, वनाद्, आववृते । वा०-इति वादिन एव होतुराहुतिसाधनेन नन्दिन्या नामानिन्धया धेन्वा वनादाववृते ।
सुधा-इति वादिनः = एवं कथयतः, एव, होतुः = हवनकर्तुः, हवनशीलस्य, इति यावद् । अस्यम्मुनेः 'वशिष्ठस्य' इत्यर्थः। आहुतिसाधनं हवनसामग्रीकारण नन्दिनी-नन्दिनीत्याता, नाम प्रसिद्धावव्ययमेतद्, अनिन्द्या, अगा, प्रशस्तेति यावद् । धेनुः= नवसूतिका 'कामधेनुसुता' इत्यर्थः। वनाद् = विपिनाद्, आव वृते प्रत्याजगाम ।
स०-साध्यतेऽनेनेति साधनम् आहुतीनां साधनमाहुतिसाधनम् ।
को०-'इति स्वरूपे सान्निध्ये विवक्षानियमेऽपि च । हेतौ प्रकारप्रत्यक्षमप्रकर्षेष्ववधारणे । एवमर्थे समाप्तौ स्याद्' इति हैमः । 'एवौपम्येऽवधारणे' इति विश्वः।। ___ ता०-इत्थं दिलीपं प्रति कामधेनुस्थानापन्नायास्तत्सुताया नन्दिनीनाम्न्याः सेवां कर्तुं कथयतस्तस्य वशिष्ठस्य यज्ञ आहुतिसामग्रीदध्याज्यादिसाधनं नन्दिन नाम धेनुर्वनात् प्रत्याजगाम । तद्वर्णनक्षण एव नन्दिनीदर्शनेन तत्कार्यसिद्धिरविलम्बेन भविष्यतीति सूचिता। ___ इन्दुः-इस प्रकार से कहते हुए ही उन बशिष्ठमहर्षि की आहुति का साधन 'नन्दिनी' नाम से प्रसिद्ध 'नई ब्याई हुई' धेनु वन से लौटकर आई ॥ ८२ ॥ सम्प्रति धेनुं विशिनष्टि
ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला |
बिभ्रती श्वेतरोमात सन्ध्येव शशिनं नवम् ॥ ८॥ सञ्जी०-ललाटेति । पल्लववस्निग्धा चासौ पाटला च । संध्यायामप्येतद्विशेषणं योज्यम् । ललाट उदयो यस्य स ललाटोदयः तमाभुग्रमीषटकम् । 'आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि' इत्यमरः । 'ओदितश्च' इति निष्ठा तस्य नरवम् । श्वेतरो. माण्येवाङ्कस्तं बिभ्रती । नवं शशिनं विभ्रती संध्येव स्थिता। ___ अ०-पल्लवस्निग्धपाटला, ललाटोदयम्, आभुग्नं, श्वेतरोमाई, बिभ्रती, नवं, शशिनम् 'विभ्रती' सन्ध्या, इव 'स्थिता'। वा०-पल्लवस्निग्धपाटलया ललाटोदयमाभुग्नं श्वेतरोमाकं विभ्रत्या नवं शशिनं बिभ्रत्या सन्ध्ययेव स्थितया 'नन्दिन्या वनादाववृते' . सुधा-पल्लवस्निग्धपाटला=किसलयमसणश्वेतमिश्ररक्तवर्णा, सन्ध्यापेक्षेपीदमेव विशेषणम् । ललाटोदयम्भालस्थलोन्नतिकम् 'भालोद्भूतम्' इति यावद् । आभुग्नम् = ईषत्कुटिलं, श्वेतरोमाईधवललोमलक्षणम्, बिभ्रती= दधाना, नवं% नूतनं, 'द्वितीयातिथावुदितम्' इति भावः। शशिनं चन्द्रम, 'बिभ्रती' सन्ध्या= पितृप्रसूः, सन्ध्याकाल इति यावद् । इव= यथा, 'स्थिता' इति शेषः ।