________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । तहिं का गतिरित्याह
___ सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः।
__ आराधय सपत्नीकः प्रीता कामदुधा हि सा ।। ८१॥ सञ्जी०-सुतामिति । तस्याः सुरभेरियं तदीया तां, सुतां सुरभेः प्रतिनिधि कृत्वा शुचिः शुद्धः। सह पन्या वर्तत इति सपत्नीकः सन्। 'नद्यतश्च' इति कप्प्रत्ययः । आराधय । हि यस्मात्कारणात्सा प्रीता तुष्टा सती । कामांन्दोग्धीति कामदुघा भवति । 'दुहः कव्घश्व' इति कप्प्रत्ययो घादेशश्च । __ अ०-तदीयां, सुतां, सुरभेः, प्रतिनिधि, कृत्वा, शुचिः, 'भूत्वा' सपत्नीकः, 'सन्' आराधय, हि सा, प्रीता, 'सती' कामदुघा, 'भवति' । वा०-तदीयां सुतां सुरभेः प्रतिनिधिं कृत्वा शुचिना सपत्नीकेन त्वयाऽऽराध्यतां हि तया प्रीतया सत्या कामदुघया भूयते ।
सुधा-तदीयां सुरभिसम्बन्धिनी, सुताम् = आत्मजां, नन्दिनीमिति यावत् । सुरभेः = कामधेनोः, प्रतिनिधिम् = प्रतिच्छायां, स्थानापन्नामिति यावत् । कृत्वा = विधाय, शुचिः=शुद्धः, 'भूत्वा' इति शेषः । सपत्नीकः=भार्यासहितः, 'सन्' इति शेषः । आराधय = आराधनां कुरु, हि= यतः, सा= नन्दिनी, प्रीता प्रसन्ना, 'सती' इति शेषः । कामदुघा = अभीष्टफलप्रसविनी, 'भवति' इति शेषः । कामधेनोरभावे तदीयां सुतां सेवस्व सेव तवाभीष्टदायिनी भविष्यति ।
स०-पत्न्या सह वर्तते यः स सपत्नीकः। को०-'शुचिर्दीष्माग्निशृङ्गारेवाषाढे शुद्ध मन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धे. ऽनुपहते त्रिषु' इति मेदिनी।
ता०-तस्याः पातललोकस्थितायाः कामधेनोः सुतां नन्दिनीनाम्नी तत्स्थानापन्नां कृत्वा पवित्रमनाः सुदक्षिणासहितस्त्वं शुषस्व यतस्त्वत्सेवया सा प्रसन्ना सती तवाभीष्टफलदायिनी भविष्यति ।
इन्दुः-उस कामधेनु की लड़की को उसी के 'स्थान पर' प्रतिनिधि करके तुम शुद्ध मन होकर रानी के सहित उसकी सेवा करो, क्योंकि वह 'नन्दिनी' प्रसन्न होती हुई मनोरथ को पूरा करने वाली होती है ॥ ८१ ॥ कामधेनुसुताया नन्दिन्या वनादागमनमित्यत्राह
इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नन्दिनो नाम धेनुराववृते वनात् ।। ८२॥ सञ्जी०-इतीति । इति वादिनो वदत एव होतुर्हवनशीलस्य । 'तृन्' इति तृन्प्रत्ययः। अस्य मुनेराहतीनां साधनं कारणम् । नन्दयतीति व्युत्पत्त्या नन्दिनी नामानिन्द्याऽगा प्रशस्ता धेनुर्वनादाववृते प्रत्यागता। 'अध्याक्षेषो भविष्यन्त्याः कार्यसिद्धेहि लक्षणम्' इति भावः।