________________
६६
रघुवंश महाकाव्यम् -
[ प्रथम
स० - पूजितुं योग्याः पूज्याः तेपां पूजा पूज्यपूजा तस्या व्यतिक्रमः पूज्यपूजाव्यतिक्रमः ।
को० - ' अनादरः परिभवः परीभावस्तिरस्क्रिया । रीढाऽवमाननावज्ञाऽबहेलन मसूर्क्षणम्' इति चामरः ।
ता० - तस्य धेनोरनादरतस्ते सन्तानरूपस्य मनोरथस्य प्रतिबन्धो जातो यतः पूज्यानां पूजालङ्घनं कल्याणम् प्रतिबध्नात्येव ।
I
इन्दुः-- उस कामधेनु का अनादर करने से अपने 'सन्तानरूप' मनोरथ को तुम रुका हुआ समझो । क्योंकि पूज्यों की पूजा का उल्लङ्घन करना कल्याण को रोकता है । तर्हि गत्वा तामाराधयामि । सा वा कथंचिदागमिष्यतीत्याशा न कर्त्तव्येत्याहहविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः 198ca, भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥ ८० ॥
सञ्जी० - हविष इति । सा च सुरभिरिदानीं सनं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजङ्गावरुद्धद्वारं ततो दुष्प्रवेशं पाता लमधितिष्ठति । पाताले तिष्ठतीत्यर्थः । 'अधिशीस्थाssसां कर्म' इति कर्मत्वम् ॥
अ० - सा, च, इदानीं, दीर्घसत्रस्य, प्रचेतसः, हविपे, भुजङ्गपिहितद्वारम्, पाता लम्, अधितिष्ठति ॥ वा० - तया चेदानीं दीर्घसत्रस्य प्रचेतसो हविषे भुजङ्ग पिहितद्वारं पातालमधिष्ठीयते ॥
बगल
=
सुधा-सा = सुरभिः, च = पुनः, इदानीम् = अस्मिन् काले, दीर्घसत्रस्य = बहुसमयसाध्ययज्ञविशेषकारिणः, प्रचेतसः = पाशिनः वरुणस्येति यावद् । हविषे : दध्याज्यादिहविःसामग्रीसम्पादनार्थम् भुजङ्गपिहितद्वारम् भुजगावरुद्ध प्रतीहारम्, 'अत एव दुष्प्रवेशस्' पातालम् = पाताललोकम् अधितिष्ठति = अध्यास्ते 'पाताले वर्त्तते' इति भावः ॥
स०- --भुजाभ्यां गच्छन्तीति भुजङ्गाः तैः पिहितं भुजङ्गपिहितं भुजङ्गपिहितं द्वारं यस्य तद् भुजङ्गपिहितद्वारम् ।
को० --- ' हविर्होतव्यमात्रे च सर्पिण्यपि नपुंसकम्' इति । 'सत्नं यज्ञे सदादानाच्छादारण्यकैतवे' इति च मेदिनी । 'सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः' इति चामरः ।
ता० - सा च कामधेनुः सम्प्रति बहुसमयसाध्ययज्ञकर्तुर्वरुणस्य यज्ञे दध्याज्यादिहविःसामग्री सम्पादनार्थम् भुजङ्गावरुद्ध प्रवेशमार्गे पाताले तिष्ठतीत्यतस्तत्र गन्तुमशक्यम् । इन्दु - और वह कामधेनु इस समय बहुत समय में पूर्ण होने वाले यज्ञ के कर्त्ता वरुण के हवि 'दधि, घृत आदि' के लिये साँपों से रुके हुए द्वारवाले पाताल लोक में रहती है ॥ ८० ॥