________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।। दिग्गजे, आकाशगङ्गायाः स्रोतसि, नदति, 'सति' ॥ वा०--हे राजन् ! तं शापं त्वं नाश्रौषीः सारथिश्च नाौषीत् , उद्दामदिग्गज आकाशगङ्गायाः स्रोतसि नदति सति।
सुधा--हे राजन् ! =हे नृप ! हे दिलीप ! इति यावत् । सः= पूर्वोक्तः, शाप आक्रोशः, 'प्रजा ते न भविष्यति' इत्यात्मकः। त्वया=भवता, नम्नहि, श्रुतः= शुश्रुवे । च= पुनः, सारथिना-सूतेन, न= नहि, 'श्रुतः' इति शेषः । उद्दामदिग्गजेउच्छृङ्खलदिङ्नागे, आकाशगङ्गायाः= वियद्गङ्गायाः 'मन्दाकिन्याः' इति यावत् । स्रोतसि%प्रवाहे, नदति = शब्दायमाने, अव्यक्तं हरहरेतिशब्दं कुवंतीति भावः। 'सति' इति शेषः। सुरनदीप्रवाहशब्दतुमुले कामधेनुशब्दस्य विलीनत्वात् त्वया न श्रुत इत्यर्थः॥ __ स०--दाम्न उद्गता उद्दामानः, दिशां गजा दिग्गजाः 'ऐरावतादयः' उद्दामानो दिग्गजा यत्र तदुद्दामदिग्गजं तस्मिन्नद्दामदिग्गजे।
को'नियन्ता प्राजिता, यन्ता सूतः क्षत्ता च सारथिः। सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः' इत्यमरः ।
ता०-हे राजन् ! त्वं तं शापं न श्रुतवान्, तथा सारथिरपि न श्रुतवान्, यतो मन्दाकिन्याः प्रवाहेऽवगाहमानानामुद्तवन्धनानामैरावतप्रभृतीनां दिग्गजानां महानव्यक्तः शब्द आसीत् ।
इन्दुः-हे राजन् ! उस शाप को तुमने और सारथि ने भी नहीं सुना। क्योंकि 'स्नान करने के लिये आये हुये अत एव बन्धन से छूटे हुये ऐरावत आदि' दिग्गजों का आकाशगङ्गा (मन्दाकिनी) के प्रवाह में अव्यक्त शब्द हो रहा था ॥ ७८॥ अस्तु प्रस्तुते किमायातमित्यत्राह
ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ ७६ ॥ सञ्जी०-ईप्सितमिति । तदवज्ञानात्तस्या धेनोरवज्ञानादपमानादात्मनः स्वस्याप्तुमिष्टमीप्सितं मनोरथम् । आप्नोतेः सन्नन्ताक्त ईकारश्च । सार्गलं सप्रतिबन्धं विद्धि जानीहि । तथाहि पूज्यपूजाया व्यतिक्रमोऽतिक्रमणं श्रेयः प्रतिबध्नाति ॥ ___ अ०-तदवज्ञानाद्, आत्मनः, ईप्सितं, सार्गलं, विद्धि, हि, पूज्यपूजान्यतिक्रमः, श्रेयः, प्रतिबध्नाति ॥ वा०-तदवज्ञानादीप्सितं सार्गलं त्वया' विद्यतां, हि पूज्यपूजाव्यतिक्रमेण श्रेयः प्रतिबध्यते ॥ ___ सुधा-तदवज्ञानात्म्सुरभेस्तिरस्क्रियायाः, अपमानादिति यावद् । आत्मनः= स्वस्य, दिलीपस्येत्यर्थः। ईप्सितम् = अभीष्टं 'सन्ततिरूपम्' इति यावत् । सार्गलम् = प्रतिबन्धसहितं, विद्धि= अवेहि, त्वमिति शेषः। हि= यतः, पूज्यपूजाव्यतिक्रमः= पूजाऽर्चािऽतिक्रमणं, श्रेयः= शुभम, प्रतिबध्नाति =निरुणद्धि ॥
५ रघु० १ सर्ग