________________
६४
रघुवंशमहाकाव्यम् -
[ प्रथमः
न्तयन् सन् त्वं तस्यां, प्रदक्षिणादिसत्कारविधिं न विहितवान् ॥
इन्दुः — ऋतुकाल (रजोदर्शन ) - निमित्तक स्नान की हुई, इस रानी सुदक्षिण को धर्म के लोप के भय से स्मरण करते हुए तुमने प्रदक्षिणक्रिया के योग्य उ कामधेनु के विषय में उचित 'प्रदक्षिणादि सत्कार' नहीं किया ॥ ७६ ॥
अनादृतायाः सुरभेर्दिलीपाय शापप्रदानमित्याह- प्रसूति {"
marietal ge 12
अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा || ॐ |
सञ्जी० – अवजानासीति । यस्मात्कारणान्मामवजानासि तिरस्करोषि । अतः कारणान्मत्प्रसूतिं मम संततिमनाराध्यासेवयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप | 'शप आक्रोशे' ।
अ० यस्माद्, माम्, अवजानासि, अतः, मत्प्रसूतिम्, अनाराध्य, ते, प्रजा, न, भविष्यति, इति, सा, त्वां शशाप । वा० - यस्मात् 'त्वया' अहमवज्ञाये तो मत्प्रसूतिमनाराध्य ते प्रजया न भविष्यत इति तया त्वं शेपे ॥
सुधा - यस्मात्=यतः कारणादिति यावद् । माम् = प्रदक्षिणक्रियाऽहां, सुरभिम्, इति यावत् । अवजानासि = तिरस्करोषि । अतः = एतस्मात् कारणादिति यावद् । भत्प्रसूतिम्: (= मम संतति, सौरभेयीं नन्दिनीमिति भावः । अनाराध्य = : असेवयित्वा, ते=तव, प्रजा=सन्ततिः, न = नहि, भविष्यति = उत्पत्स्यते इति इत्थं सा= कामधेनुः, त्वां = भवन्तं दिलीपमिति भावः । शशाप = शप्तवती । मदवज्ञारूपापराधेन मदारमजासेवनं विना न ते प्रजा भविष्यतीति सा त्वां शशापेति भावः ॥
स० - मम प्रसूतिर्मत्प्रसूतिस्ताम् मत्प्रसूतिम् ।
को० - 'प्रसूतिरुद्भवेऽपि स्यात्तनये दुहितर्यपि ' इति मेदिनी ।
ता०—– यस्मात्प्रदक्षिणक्रियाऽहमपि मामवजानास्यतो यावन्मद्दुहितरं न सेविष्यसे तावत् ते प्रजाऽपि न भविष्यतीति सा कामधेनुस्त्वामशपत् ॥
इन्दुः-तूने मेरा अनादर किया इस कारण से मेरी सन्तति की आराधना किए बिना तुझे संतान नहीं होगा ऐसा उस 'कामधेनु' ने तुम्हें शाप दिया ॥ ७७ ॥ कथं तदस्माभिर्न श्रुतमित्याह
स शापो न त्वया राजन्न च सारथिना श्रुतः 1 नदत्याकाशगङ्गायाः स्नोतस्युद्दाम दिग्गजे ॥ ७८ ॥
सञ्जी० - स इति । हे राजन् ! स शापस्त्वया न श्रुतः सारथिना च न श्रुतः । अश्रवणे हेतुमाह- क्रीडार्थमागता उद्दामानो दाम्न उद्द्वता दिग्गजा यस्मिंस्तथोक्ते । आकाशगङ्गाया मन्दाकिन्याः स्त्रोतसि प्रवाहे नदति सति ॥
अ०-
- हे राजन् !, सः, शापः त्वया न श्रुतः, च, सारथिना, न 'श्रुतः' उद्दाम