________________
सर्गः ]
सञ्जीवनी - सुधेन्दुटी कात्रयोपेतम् |
६३
को०- 'जिष्णुलैखर्षभः शक्रः शतमन्युर्दिवस्पतिः' इति । 'सर्वसहा वसुमती वसुधोर्वी वसुन्धरा' इति । 'सुगन्धे च मनोज्ञे च वाच्यवत् सुरभिः स्मृतः' इति विश्वः । ता० – स्वर्गाद् भूलोकमागच्छता त्वया वर्त्मनि सुरतरुच्छायायां निषण्णा कामधेनुर्दृष्टा ।
इन्दु: - ' पहले किसी समय में' इन्द्र का दर्बार करके पृथ्वी की ओर लौटते हुए तुम्हारे मार्ग में कल्पवृक्ष की छाया का सेवन करती हुई कामधेनु थी ॥ ७५ ॥ ततः किमित्याह - कामधेनोः प्रदक्षिणा करणे हेतुं प्रदर्शयन्नाह - धर्मलोप भयाद्राज्ञी मृतुस्नातामिमां स्मरन् । प्रदक्षिणक्रियायां तस्यां त्वं साधु नाचरः ॥ ७६ ॥
सञ्जी० - धर्मेति । ऋतुः पुष्पं रज इति यावत् । 'ऋतुः स्त्री कुसुमेऽपि च' इत्यमरः । ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्यत्वंभिगमनलक्षणस्य लोपाद् भ्रंशाद्यद् भयं तस्मात्स्भरन्ध्यायन् । ( मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन् ॥ ) इति शास्त्रात्प्रदक्षिणक्रियाऽर्हायां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरो नाचरितवानसि व्यासक्ता हि विस्मरन्तीति भावः । ऋतुकालाभिगमने मनुः - ( ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा ) इति । अकरणे दोषमाद पराशरः - ( ऋतुस्नातो तु यो भार्यां स्वस्थः सन्नावगच्छति । बालगोघ्नापराधेन विध्यते नात्र संशयः ॥ ) इति । तथा च- (ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ) इति ।
अ— ऋतुस्नाताम्, इमां राज्ञीं, धर्मलोपभयात्, स्मरन्, प्रदक्षिणक्रियाऽर्हायां, तस्यां, त्वं, साधु, न, आचरः । वा० - ऋतुस्नातामिमां राज्ञीं धर्मलोपभयात् स्मरता 'सता' त्वया प्रदक्षिणक्रियायां तस्यां साधु नाचय्र्यत ।
सुधा — ऋतुस्नातां = रजोदर्शननिमित्तककृतस्नानाम्, इमाम् = अग्रे स्थितां, राज्ञीं = पत्नीं, सुदक्षिणामित्यर्थः । धर्मलोपभयाद् = ऋतुकालाभिगमनरूपाचारभ्रंशभीत्या, स्मरन् = अनुचिन्तयन्, प्रदक्षिणक्रियायाम् = प्रदक्षिणकरणयोग्यायां, शास्त्रादिति शेषः । तस्याम् = पूर्वोक्तायां, धेन्वामिति यावत् त्वम् = भवान्, दिलीपः इति भावः । साधु = चारु, प्रदक्षिणादिसत्कारमित्यर्थः । न = = नहि, आचरः = विहितवानसि ।
स० - धर्मस्य लोपो धर्मलोपः धर्मलोपाद् भयं धर्मलोपभयं तस्माद् धर्मलोपभयात् । प्रगतं दक्षिणं प्रदक्षिणं तस्य क्रिया प्रदक्षणक्रिया, अर्हति या सा अर्का प्रदक्षिणक्रियायाम प्रदक्षिणक्रियाऽर्हा तस्यां प्रदक्षिणक्रियायाम् ।
को० - 'ऋतुर्वर्षाऽऽदिषट्सु च । आर्तवे मासि च पुमान्' इति मेदिनी । ता०—पथि तां कामधेनुं दृष्ट्वाऽपि ऋतुकालाभिगमनधर्म नाशभीत्या राज्ञीं चि
-