________________
रघुवंशमहाकाव्यम्
[प्रथम___ अ०-प्रणिधानेन, भावितात्मा, भुवः, भर्तुः, सन्ततेः स्तम्भकारणम् , अपश्यत् , अथ, एनम्, प्रत्यवोधयत् ॥ वा०-प्रणिधानेन भावितात्मना तेन भुवो भर्तुः सन्ततेः स्तम्भकारणमदृश्यत, अथैष प्रत्यबोध्यत॥
सुधा-प्रणिधानेन = समाधिना, चित्तस्य समाहित्येत्यर्थः। भावितात्मा-पवित्रान्तःकरणः, सः=महर्षिर्वशिष्ठः, भूमेः मयाः, भर्तुः-स्वामिनः, 'दिलीपस्य' इति भावः। सन्ततः पुत्रस्य, स्तम्भकारणम् = प्रतिबन्धहेतुम्, अपश्यद् = दृष्टवान् , अथ पश्चात् , सन्तानप्रतिवन्धकारणदर्शनानन्तरमिति यावद् । एवं = दिलीपम् प्रत्यवोधयत्-प्रतिज्ञापितवान् ।
स०-स्तम्भस्य कारणं तत्स्तम्भकारणम् ।
को-हेतुर्ना कारणं वीजम्' इत्यमरः। भर्ता स्वामिनि पुंसि स्यात् त्रिषु धातरि पोष्टर' इति मेदिनी।
ता०-समाधिस्थः सन् ऋपिर्वशिष्ठो ध्यानचक्षुषा राज्ञो दिलीपस्य सन्तानप्रतिवन्धकारणं स्वयं निरीचय तदनन्तरं तं बोधितवान् ॥
इन्दुः-चित्त की एकाग्रता द्वारा शुद्ध अन्तःकरण वाले उन 'वशिष्ठ ऋषि' ने पृथ्वी के पालन करनेवाले 'राजा दिलीप' की सन्तति के प्रतिबन्ध 'न होने के कारण को देखा, उसके बाद इन 'राजा दिलीप' को भी बतलाया ॥ ७४ ॥ वशिष्ठस्य राज्ञः सन्तानप्रतिबन्धकारणकथनमित्यत्राह
पुरा शक्रमुपस्थाय तवोवी प्रति यास्यतः।
आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ।। ७५ ॥ सञ्जी-पुरेति । पुरा पूर्व शक्रमिन्द्रमुपस्थाय संसेव्योर्वी प्रति भुवमुद्दिश्य यास्यतो गमिण्यतस्तव पथि वर्मनि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत् । तत्र स्थितेत्यर्थः।।
अ०-पुरा, शक्रम्, उपस्थाय, उर्वीम्, प्रति, यास्यतः, तव, पथि, कल्पतरुच्छायाम, आश्रिता, सुरभिः, आसीत्। वा०-पुरा शक्रमुपस्थायोवी प्रति यास्यतस्तव पथि कल्पतरुच्छायामाश्रितया सुरभ्याऽभूयत ।। ___ सुधा-पुरा = आदौ, शक्रंदिवस्पतिम्, इन्द्रमिति यावद् । उपस्थाय-उपस्थानं कृत्वा, 'संसेव्य' इत्यर्थः। उर्वीम् प्रतिवसुन्धरामुद्दिश्य, यास्यतः = गमिप्यतः 'भूलोकमुद्दिश्य स्वर्गतः परावर्तमानस्य' इति भावः । तव = भवतः, 'दिलीपस्य' इत्यर्थः । पथि = अध्वनि, 'स्वर्गलोकमण्डलमार्गे' इति भावः। कल्पतरुच्छायां= देवतरोरधोभागे, मन्दारपारिजातकसन्तानकल्पतरुवृक्षहरिचन्दनकतरदेवतरोश्छायाम्' इति भावः। आश्रिता = सेविता, तत्र स्थितेति भावः। सुरभि कामधेनुः, आसीत् = अभवत् ।
स०-कल्पतरोः छाया कल्पतरुच्छाया तां कल्पतरुच्छायाम् ।