________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।। ६१
इन्दुः हे तात ! उस 'पैतृक ऋण' किस प्रकार से मैं छुटकारा पाऊँ उस प्रकार से 'उसे' करने के लिये आप योग्य हो। क्योंकि इचवाकुकुल के राजाओं के कठिन कार्य के विषय में सिद्धियाँ आप के अधीन हैं ॥ ७२ ॥ * दिलीपप्रश्नं श्रुत्वा वशिष्ठस्य तदुपरि विचार इत्याह
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृदः ।। ७३ ॥ सञ्जी०-इतीति । इति राजा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य स ध्यानस्तिमितलोचनो निश्चलाक्षः सन्क्षणमात्रं सुप्तसीनो हृद इव तस्थौ ॥
अ०-इति, राज्ञा, विज्ञापितः, ऋषिः, ध्यानस्तिमितलोचनः, 'सन्' क्षणमात्रं, सुप्तमीनः, हृदः, इव तस्थौ ॥ का०-इति राज्ञा :विज्ञापितेन ऋषिणा ध्यानस्तिमितलोचनेन 'सता' क्षणमात्रं सुप्तमीनेन हृदेनेव तस्थे ।
सुधा-इति = इत्थं, राज्ञानृपेण 'दिलीपेन' इत्यर्थः । विज्ञापितः = निवेदितः, ऋषिः=सत्यवचाः 'महर्षिर्वशिष्टः' इति यावद्, ध्यानस्तिमितलोचनः=चिन्तननिश्चलाक्षः, 'सन्' इति शेषः। क्षणमात्रं = त्रिंशत्कलाप्रमाणं, क्रियाविशेषणमिदम् । सुप्तमीनःनिद्रितमत्स्यः, हृदः =सरः, इव= यथा, तस्थौ = स्थितवान् ॥ __ स०-लोच्येते आभ्यामिति लोचने, ध्यानेन स्तिमिते ध्यानस्तिमिते ध्यानस्तिमिते लोचने यस्यासौ ध्यानस्तिमितलोचनः ।
को०-'क्षणः कालविशेषे स्यात् पर्वण्यवसरे मुदे । व्यापारविकलत्वे च वरतन्त्रत्वमन्ययोः' इति हैमः। 'पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः। विसारः शकली' इति । 'तत्रागाधजलो हृदः' इति चामरः ॥
ता-दिलीपस्य प्रार्थनाश्रवणानन्तरम् ऋषिर्वशिष्ठो नेने निमील्य समाधिस्थः सन् ध्यानचक्षुषा पुत्राभावकारणं विचारयामास ॥
इन्दुः-इस प्रकार से राजा 'दिलीप' से निवेदन किये गये 'वशिष्ठ' ऋषि ध्यान से दोनों आँखें मूंदे हुये क्षणमात्र, सोई मछलियाँ हैं जिसमें ऐसे अगाध जलाशय की भांति स्थित रहे ॥७३॥ वशिष्ठस्य ध्यानचक्षुषा पुत्रप्रतिबन्धकारणं विज्ञाय दिलीपं प्रति कथनमित्याह
सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् ।
भावितात्मा भुवो भतुरथैनं प्रत्यबोधयत् ।। ७४ ॥ सञ्जी०-स इति । स मुनिः प्रणिधानेन चित्तैकाग्रयेण भावितात्मा शुद्धान्तःकरणो भुवो भर्तुर्नृपस्य संततेः स्तम्भकारणं संतानप्रतिवन्धकारणमपश्यन् । अथानन्तरमेनं नृपं प्रत्यबोधयत् । स्वदृष्टं ज्ञापितवानित्यर्थः । एनमिति 'गतिबुद्धिप्रत्यवसानार्थ' इत्यादिनाऽणि कर्तुः कर्मस्वम् ।