________________
रघुवंशमहाकाव्यम्
[प्रथमस०-सोढुं योग्या सह्या न सोत्यसह्या असह्या पीडा यस्मिस्तदसहपीडम्॥ __ को-पीडा बाधा व्यथा दुःखमामनस्य प्रसूतिजम् । 'स्यात्कष्टं कृच्छ्रमाभील त्रिवेषां भेद्यगामि यत्' इत्यमरः । 'स्यादृणं पर्युदञ्चनम् । उद्धारः' इति । 'अन्तो जघन्यं चरममन्त्यपाश्चात्त्यपश्चिमाः' इति । 'व्रणोऽस्त्रियामीर्ममरुः' इति । 'अरुन्तुदस्तु मर्मस्पृग' इति । 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इति चामरः।
ता०-हे भगवन् ! मम सम्प्रति पैतृकमृणं तथा दुःसहदुःखकरं भवति यथा स्नानकर्मरहितस्य गजस्य मर्मस्पृग बन्धनस्तम्भोऽसह्यदुःखो भवति ॥ ७१ ॥ ___इन्दः-हे भगवन् ! मेरे अन्तिम 'पैतृक ऋण को, विना स्नान किये हुए हाथी के मर्म को दुःख देने वाले वांधने के खम्भे की तरह असह्य पीड़ा 'पहुँचाने वाला 'आप' समझें ॥७१॥ दिलीपस्य पुत्रप्राप्तौ प्रयत्नं कर्तुं वशिष्ठं प्रति कथनमित्याह
तस्मान्मुच्ये यथा तात ! संविधातुं तथाऽहमि । ___ इक्ष्गकूणां दुरापेऽर्थे त्वदधोना हि सिद्धयः ।। ७२ ।। सञ्जी०–तस्मादिति । हे तात! तस्मात्पैतृकाहणाद्यथा मुच्ये मुक्को भवामि । कर्मणि लट् । तथा संविधातुं कर्तुमर्हसि। हि यस्मात्कारणादिवाकूणामित्वाकु - वंश्यानाम् तद्राजत्वाद्वहुप्वणो लुक् । दुरापे दुष्प्राप्येऽर्थे । सिद्धयस्त्वदधीनास्त्वदायत्ताः । इच्चाकूणामिति शेषे पष्ठी 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इत्यनेन कृद्योगे षष्ठीनिषेधात् ॥ __ अ०–'हे' तात!; तस्मात् , यथा, मुच्ये, तथा संविधातुं, 'त्वम्' अर्हसि, हि इच्वाकूणां, दुरापे, अर्थ, सिद्धयः, स्वदधीनाः। वा०-हे तात ! तस्माद् यथा मया मुच्यते तथा संविधातुं त्वया अद्यते हि, इचवाकूगां दुरापेऽर्थे सिद्धिमिस्त्वदधीनाभिभूयते।
सुधा-हे तात ! हे पितः! तस्मात् = पैतृकारणात् 'पुत्रोत्पत्तिकरणाद् इति यावद् । यथायेन प्रकारेण, मुच्ये मुक्तो भवामि, तथा तेन प्रकारेण, संविधातु कर्तुं, 'स्वम्' अर्हसि = योग्योऽसि, हि= यस्मारकारणाद्, 'इच्वाकूणाम् = इच्वाकुवंशोद्भवानां, दुरापे =दुष्प्राप्ये, अर्थ प्रयोजने, सिद्धयः कार्यसिद्धयः, त्वदधीना= त्वदायत्ताः, 'सन्ति' इति शेषः ।
स०-अधि उपरि-इनो यासां ता अधीनाः तव-अधीनास्त्वदधीनाः॥ ___ को०-'तातस्तु जनकः पिता' इत्यमरः । 'अर्थों हेतौ'प्रयोजने। निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु' इति हैमः। । ता०-हे तात ! इक्ष्वाकुकुलजातानां राज्ञां दुष्करकार्यसिद्धयस्त्वदधीनाः, अत: पैतृकाहणाद् यथा मुक्तो भवामि तथा कर्तुं त्वं योग्यो भव, अर्थादुद्धरेति भावः॥