________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।
५६ हीनं मां स्नेहात् स्वयमेव सिक्तमाश्रमवृक्षकमिव पश्यता 'त्वया' कथं न दूयते ॥
सुधा-'हे' विधातः !हे स्रष्टः! प्रजापते ! इति भावः। तया=सन्तत्या, हीनं = रहितम्, अपुत्रमिति भावः। मां-दिलीपं, स्नेहात-प्रेरणा, स्वयम् आत्मना, एव= निश्चयेन, सिक्तं जलदानेन संवर्धितम्, वन्ध्यम् = फलरहितम्, आश्रमवृक्षकम् = मठहस्वपादपम्, इव = यथा, पश्यन् = विलोकयन्, कथंकेन प्रकारेण, नम्नहि, दूयसे= परितप्यसे ।
स०-आश्रमस्य वृक्षकः आश्रमवृक्षकः तमाश्रमवृक्षकम् ॥
कोशः-'वष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधिः' इत्यमरः। 'आश्रमो ब्रह्मचर्यादौ वानप्रस्थे मठे वने' इति मेदिनी।
ता०-यथाऽऽत्मना जलदानेन संवर्धितमपि फलरहितमाश्रमवृक्षशिशुं विलोक्य भवान् दुःखी भवति तथैव पुत्ररहितं मां दृष्ट्वा कथं न परितापो भवतां हृदि भवति ॥
इन्दुः-हे विधातः ! सन्तान से हीन मुझे, स्नेह से स्वयम् सींचे हुए फल से रहित आश्रम के छोटे वृक्ष की भाँति, देखते हुए किस कारण से आप दुःखी नहीं होते हो ॥७॥ दिलीपस्य स्वकीयापुत्रत्वस्यासह्यपीडत्वकथनमित्याह
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ।। ७१ ॥ सञ्जी०-असह्यपीडमिति । हे भगवन् ! मे ममान्त्यमृणं पैतृकमृणम् । भनिर्वाणस्य मजनरहितस्य । निर्वाणं निर्वृतौ मोक्षे विनाशे गजमजने'इति यादवः । दन्तिनो गजस्य । अरुमम तुदतीत्यरुन्तुदं मर्मस्पृक् 'व्रणोऽस्त्रियामीर्ममरुः' इति । 'अरुन्तुदस्तु मर्मस्पृक्' इति चामरः । 'विध्वरुषोस्तुदः' इति खश्प्रत्ययः । 'अरुर्द्विषद्' इत्यादिना मुमागमः। मालानं बन्धनस्तम्भमिव । 'आलानं बन्धनस्तम्भे' इत्यमरः । असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि । दुःसहदुःखजनकं विद्धीत्यर्थः । 'निर्वाणोत्थानशयनानि त्रीणि गजकर्माणि' इति पालकाप्ये (ऋणं देवस्य यागेन ऋषीणां दानकर्मणा । सन्तत्या पितृलोकानां शोधयित्वा परिव्रजेत् ॥
अ०-हे भगवन् !, मे, अन्त्यम्, ऋणम्, अनिर्वाणस्य, दन्तिनः, अरुन्तुदम्, आलानम् , इव, असह्यपीडम, अवेहि ॥ वा०-हे भगवन् ! मेऽन्त्यमृणमनिर्वाणस्य दन्तिनोऽरुन्तुदमालानमिवासहपीडं त्वयाऽवेयताम् ॥
सुधा-हे भगवन = षडैश्वर्यशालिन् ! मेमम 'दिलीपस्य' इत्यर्थः । अन्त्यं देवर्षिपितृसम्बन्धि ऋणस्य चरमम, ऋणम् =पित्रुद्धारम्, अनिर्वाणस्यनिर्वाणसंज्ञक गजस्य, मजनकर्मरहितस्येत्यर्थः। दन्तिनः हस्तिनः । अरुन्तुदम् = मर्मस्पृशम्, आलानम् = बन्धनस्तम्भम्, इव= यथा असह्यपीडं-दुःसहव्यथाकरम्, अवेहि =जानीहि ॥