________________
५८ रघुवंशमहाकाव्यम्
[प्रथमःननु तपोदानादिसम्पन्नस्य किमपत्यरित्यत्राह
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । ___ सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ ६ ॥
सञ्जी०-लोकान्तरेति । समुद्भवत्यस्मादिति 'समुद्भवः कारणम् । तपोदाने समुद्भवो यस्य तत्तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम् । शुद्धवंशे भवा शुद्धवंश्या सन्ततिहि परत्र परलोके, इह च लोके शर्मणे सुखाय । 'शर्मशातसुखानि च' इत्यमरः। भवतीति शेषः॥
अ०-तपोदानसमुद्भवं 'यत्' पुण्यं 'तत्' लोकान्तरसुखं, शुद्धवंश्या, 'सन्ततिः हि, इह, परन्न, च शर्मणे, 'भवति' ॥ वा०-तपोदानसमुद्भवेन 'येन' पुण्येन 'तेन' लोकान्तरसुखेन 'भूयते' शुद्धवंश्यया सन्तत्या हि इह परत्र च 'शर्मणे भूयते'।
सुधा-तपोदानसमुद्भवं कृच्छ्रचान्द्रायणादिवतदानकारणकं, 'यत्' पुण्यं = सुकृतं, 'तद्' लोकान्तरसुखम् = परलोकसुखकारकम्, 'अस्ति' इति शेषः । शुद्धवंश्या पवित्रवंशोगवा, सन्ततिःप्रजा, पुत्र इति यावद् । हि= यतः, इह % अस्मिन् लोक इति यावत् । परत्र-परस्मिन् , परलोक इत्यर्थः । च, शर्मणे सुखाय 'भवति' इति शेषः। ___ स-लोक्यतेऽस्मिन्निति लोकः सुखयतीति सुखम्, अन्यो लोको लोकान्तरम् तत्र सुखं लोकान्तरसुखम् । समुद्भवत्यस्मादिति समुद्भवः कारणं तपश्च दानश्चेति तपोदाने, तपोदाने समुद्भवो यस्य तत् तपोदानसमुद्भवम् ।
ता०-पुण्यं केवलं परलोके सुखावहम्, परन्तु सन्ततिस्तूभयलोकमध्ये सुखकरी, अतः पुण्यापेक्षया सन्ततेरेवाधिकसुखास्पदत्वम् ॥ __इन्दुः-तप और दान है कारण जिसका ऐसा जो पुण्य वह परलोक में सुख देने वाला होता है । परन्तु पवित्र वंश में उत्पन्न हुई सन्तति इस लोक और परलोक दोनों ही में सुख के लिये होती है ॥ ६९॥ समर्थोऽपि कथमनपत्यं मांज्ञात्वा भवान्न दूयत इत्याह
तया हीन विधातमा कथं पश्यन्न दूयसे ।
सिक्त स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम ॥ ७० ॥ सञ्जी०-तयेति । 'हे' विधातः ! स्रष्टः!, तया संतत्या हीनमनपत्यं मास् । स्नेहात्प्रेरणा स्वयमेव सिक्तं जलसेकेन वर्धितं वन्ध्यमफलम् 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः आश्रमस्य वृक्षकं वृक्षपोतमिव । पश्यन्कथं न दूयसे न परितप्यसे। विधातरित्यनेन समर्थोऽप्युपेक्षस इति गम्यते ॥
अ०-'हे' विधातः!, तया, होनम्, मां, स्नेहाद, स्वयम्, एव, सिक्तम्, बन्ध्यम, आश्रमवृक्षकम्, इव पश्यन् कथं, न, दूयसे । बा०-हे विधातः ! तया