________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।। जल को 'मेरे पूर्वज 'पितृगण' अपने 'दुःखजन्य' निःश्वासों से थोड़ा गरम 'जैसे हो से पीते हैं । ऐसा मैं' अनुमान 'करता हूँ' ॥ ६ ॥ पितॄणामुतौ दिलीपस्य दुःखप्रकाशनमित्याह
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः।
प्रकाशश्वा प्रकाशश्च लोकालोक इवाचलः ॥ ६॥ सञ्जी०-स इति । इज्या यागः 'बजयजो वे क्यप' इति 'क्यप्प्रत्ययः । तथा विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन सन्तत्यभावेन निमीलितः कृतनिमीलनः सोऽहम् । लोक्यत इति लोकः। न लोक्यत इत्यलोकः, लोकश्चालोकश्चात्र स्त इति, लोकश्वासावलोकश्चेति वा, लोकालोकश्चक्रवालोऽचल इव । 'लोकालोकश्चक्रवालः' इत्यमरः । प्रकाशत इति प्रकाशश्च देवर्णविमोचनाद् । न प्रकाशत इत्यप्रकाशश्च पितणाविमोचनात् । पचायच। अस्मीति शेषः। लोकालोकोऽप्यन्तःसूर्यसंपर्काद्धहिस्तमोज्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ॥ ___ अ०-इज्याविशुद्धात्मा, प्रजालोपनिमीलितः, अहं, लोकालोकः, अचलः, इव, प्रकाशः, च, अप्रकाशः, च,'अस्मि' ॥ वा०-इज्याविशुद्धात्मना प्रजालोपनिमीलितेन तेन मया लोकालोकेनाचलेनेव प्रकाशेन चाप्रकाशेन च भूयते ॥
सुधा-इज्याविशुद्धामा यज्ञपवित्रान्तःकरणः, प्रजालोपनिमीलित सन्तत्यदर्शनकृतनयनपचमसङ्कोचा, साएवम्भूतः, अहं दिलीपः, लोकालोका-चक्रवालः, 'सप्तद्वीपवत्या भूमेः प्राकारभूतो गिरिरित्यर्थः । अचला= शैलः, इव= यथा, प्रकाशश्च =देवर्णविमोचनाद् द्योतश्च, दीप्त इत्यर्थः । पर्वतपक्षे-द्योत आतप इत्यर्थः अप्रकाशश्च =पितृणाविमोचना दीप्तश्च, म्लान इत्यर्थः, पर्वतपक्षेऽन्धकार इत्यर्थः । अस्मीति शेषः॥
स०-अततीत्यात्मा, यजनमिज्या तया विशुद्धः इज्याविशुद्धः इज्याविशुद्ध आत्मा यस्य स इज्याविशुद्धात्मा। प्रकर्षण जायत इति प्रजा तस्या लोपः प्रजालोपः तेन निमीलितः प्रजालोपनिमीलितः।
को०-'इज्या दानेऽध्वरेऽर्चायां सङ्गमे स्त्री गुरौ त्रिषु' इति मेदिनी । 'प्रकाशोद्योत आतपः' इति चामरः । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इति चामरः ॥ ___ ता०-अहं दिलीपो यज्ञकरणेन देवर्णविमोचनात् प्रसन्नो विकसितनेत्रोस्मि, किन्तु सन्ततेरभावादत एव पितॄणाविमोचनादप्रसन्नोऽत एव निमीलितनयनश्चास्मीत्यतो लोकालोकाचलस्येव मे स्थितिः सम्प्रत्यस्ति ।।
इन्दुः-यज्ञ करने के कारण शुद्ध चित्तवाला तथा पुत्रके न दिखाई पड़ने (न होने) से आँख मूंदे हुये 'अन्धा' जैसा मैं 'दिलीप' लोकालोक पर्वतकी भाँति प्रकाशवान् 'दीप्तिमान' और अप्रकाशवान् 'मलिन' हो रहा हूँ ॥ ६८॥