Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 24
________________ रघुवंश महाकाव्यम् परस्परविरुद्धानामपि गुणानां तत्र साहचर्य्यमासी दित्याह ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ २२ ॥ सञ्जी० - ज्ञान इति । ज्ञाने परवृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम् । यथाऽऽह कामन्दकः–(नान्योपतापि वचनं मौनं व्रतचरिष्णुता ) इति । शक्तौ प्रतीकारसामर्थ्येऽपि क्षमा अपकारसहनम् । अत्र चाणक्यः - ( शक्तानां भूषणं क्षमा ) इति । त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः । अत्राह मनुः - ( न दत्त्वा परिकीर्तयेद् ) इति । इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धमौनादिभिरनुबन्धित्वात्सहचारित्वात् सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन् । विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः । २० [ प्रथमः अ० ० - ज्ञाने, मौनं शक्तौ, क्षमा, त्यागे, श्लाघाविपर्ययः, 'इत्थं' तस्य, गुणाः गुणानुबन्धित्वात् सप्रसवाः, इव, 'अभूवन्' इति शेषः । , वा०-ज्ञाने मौनेन, शक्तौ क्षमया, त्यागे श्लाघाविपर्ययेण, तस्य गुणैर्गुणानुव न्धित्वात् सप्रसवैरिवाभावि । सुधा - ज्ञाने= परवृत्तान्तावगमे, 'सत्यपि' मौनं = वाणीनियमनं, शक्तौ = प्रतीका रसामर्थ्येऽपि, क्षमा = अपकार सहिष्णुता, त्यागे = दाने, 'सत्यपि' श्लाघाविपर्य यः=स्वप्रशंसनाभावः ‘इत्थं' तस्य = दिलीपस्य, गुणाः = ज्ञानप्रभृतयः, गुणानुवन्धि त्वाद् = विरुद्धमौनादिगुणसहचारित्वात्, सप्रसवाः = सोदर्य्याः, इव= यथा, अभूव न्निति शेषः । परस्परविरुद्धा अपि ज्ञानमौनादिप्रभृतयो गुणास्तत्राविरोधेनैवास न्निति भावः । स०- - गुणैरनुबन्धित्वं गुणानुबन्धित्वं तस्माद् गुणानुबन्धित्वात् । को० - 'क्षितिज्ञान्त्योः क्षमा' इत्यमरः । 'अस्त्री चाटु चटु श्लाघा प्रेम्ण मिथ्या विकत्थनम्' | 'मौन्य द्रव्याश्रिते सत्वशौर्य्यसन्ध्यादिके गुणः' इत्य मरः । 'स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने' इत्यमरः । ता० - दिलीपः परवृत्तान्तज्ञानवानपि प्रयोजनं विना तन्न वदति, प्रतीकारक रणक्षमोऽप्यपकारकर्तुरुपेक्षणं करोति, दाता सन्नपि नात्मविकत्थनं करोतिस्म । इन्दुः- दूसरे के वृत्तान्त को जानते हुये भी उस विषय में चुप रहना, साम‍ रहने पर भी अपकार सहन करना, दान करने पर भी अपनी बड़ाई न करना इस प्रकार से उस राजा दिलीप के ज्ञानादिक गुण-विरुद्ध मौनादिक गुणों के साथ रहने से सहोदर के समान हुये ॥ २२ ॥ द्विविधं, वृद्धत्वं, ज्ञानेन वयसा च । तत्र तस्य ज्ञानेन वृद्धत्वमाहअनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥ २३ ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149