Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२६
रघुवंश महाकाव्यम् -
[ प्रथमः
सञ्जी० - तमिति । वेधाः स्रष्टा । 'स्रष्टा प्रजापतिर्वेधाः' इत्यमरः । तं दिलीपम् । समाधीयतेऽनेनेति समाधिः कारणसामग्री । महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज । नूनं ध्रुवम् । इत्युत्प्रेक्षा । तथाहि । तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन् । महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ।
अ० वेधाः, तं, महाभूतसमाधिना, विदधे नूनं, तथा हि, तस्य, सर्वे, गुणाः, परार्थैकफलाः आसन् । वा०-- वेधसा महाभूतसमाधिना स विदधे नृनं तथा हि तस्य सर्वैर्गुणैः परार्थेकफलैरभूयत ।
सुधा - वेधाः = विधिः, तं दिलीपम्, महाभूतसमाधिना = पृथिव्यप्तेजोवाय्वाकाशानां कारणसामग्रथा, विदधे = विरचितवान्, नूनं = ध्रुवम्, इत्युत्प्रेक्षा, तथा हि = तेन प्रकारेण हि, तस्य दिलीपस्य, सर्वे = निखिलाः, गुणाः = दयादानदाक्षिण्यादिगुणाः, रूपरसादिमहाभूतगुणवदेव, परार्थैकफलाः = अन्यप्रयोजनमुख्यफलकाः, आसन् = अभूवन् ।
स० - महाभूतानां समाधिः महाभूतसमाधिस्तेन महाभूतसमाधिना । परस्यार्थः परार्थः स एव एवं 'मुख्यं' फलं येषां ते परार्थेकफलाः ।
को०--' नूनं निश्चिततर्कयोः' इति विश्वः । 'भूतं चमाऽऽदौ पिशाचादौ न्याय्ये सत्योपमानयोः' इति विश्वः । 'अर्थों हेतौ प्रयोजने' इति हैमः ।
ता०—ब्रह्मा यथा यया कारणसामग्रथा महाभूतपञ्चकं निर्मितवांस्तया सामग्रथैव तथा दिलीपमपि निर्ममौ, अत एव पञ्चमहाभूतगुणवदस्यापि सर्वे शौर्य्यादयो गुणाः परप्रयोजन मुख्यफलका आसन् ।
इन्दुः-ब्रह्मा जी ने उस राजा दिलीप को महाभूतों (पृथ्वी - जल-तेज- वायुआकाश ) के कारण की सामग्री से बनाया था, निश्चय करके उस राजा दिलीप के सभी 'शौर्य्यादि' गुण 'पञ्चमहाभूतों के रूपरसादि गुणों के तुल्य' पराये प्रयोजन वाले ही थे ॥ २९ ॥
तस्य चक्रवर्त्तित्वमाह -
सावप्रवलयां परिखीकृत सागराम्
अनन्यशासनामुर्वी शशा सैकपुरीभित्र ॥ २० ॥
1
सञ्जी० - स इति । स दिलीपः । वेलाः समुद्रकूलानि । 'वेला कूलेऽपि वारिधेः' इति विश्वः । ता एव । वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम् । 'स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः प्राचीनं प्रान्ततो वृतिः' इत्यमरः । परितः खातं परिखा दुर्गवेष्टनम् । 'खातं खेयं तु परिखा' इत्यमरः । 'अन्येष्वपि दृश्यते' इत्यत्रापिशब्दाखनेर्डप्रत्ययः । अपरिखाः परिखाः सम्पद्यमानाः कृताः परिखीकृताः सागरा यस्या स्ताम् । अभूततद्भावेच्विः । अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशा

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149