Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 34
________________ रघुवंशमहाकाव्यम् [प्रथमःअ०-तेन, सन्तानार्थाय, विधये, स्वभुजाद्, अवतारिता, जगतः, गुर्वी, धूः, सचिवेषु, निचिक्षिपे । वा०-स सन्तानार्थाय विधये स्वभुजादवतारितां जगतो गुवी, धुरं, सचिवेषु निचिक्षेप। सुधा-तेन = राज्ञा दिलीपेन, सन्तानार्थाय = वंशप्रयोजनाय, पुत्रायेति यावत् । विधये = विधानाय, अनुष्ठानायेति यावत् । स्वभुजाद् = आत्मवाहोः, अवतारिता = अवरोपिता, जगतः= लोकस्य, गुर्वी = दुर्भरा, धूः=भारः, कार्यस्येति शेषः । सचिवेषु = मन्त्रिषु, निचिक्षिपे-स्थापयामास। स०-सन्तानोऽर्थः प्रयोजनं यस्यासौ सन्तानार्थस्तस्मै सन्तानार्थाय । को०-'वंशोऽन्ववायः सन्तानः' इत्यमरः । 'अर्थो हेतौ प्रयोजने' इति हैमः । 'विधिविधाने देवेऽपि' इत्यमरः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । 'गुरुस्तु गीष्पती श्रेष्टे गुरौ पितरि दुर्भरे' इति विश्वः । 'मन्त्री सहायः सचिवा' इत्यमरः। ___ता०--पुत्रप्रयोजनकमनुष्ठानं कर्तुं समुत्सुको दिलीपो राज्यभारं मन्त्रिषु स्थापयामास। ___ इन्दुः-उस राजा दिलीप ने सन्तानप्राप्ति के लिए अनुष्ठान करने के निमित्त अपने बाहु पर से उतारे हुए जगत् के बड़े भारी (प्रजापालनरूप कार्य-) भार को मन्त्रियों के ऊपर रख दिया ॥ ३४ ॥ पुत्रप्राप्तिकाम्यया दिलीपस्य स्वगुरोर्वसिष्ठत्याश्रमे गमनमित्याह अथाभ्यय विधातारं प्रयतौ पुत्रकाम्यया । तौ दम्पती वसिष्ठस्य गुरोजग्मतुराश्रमम् ॥ ३५ ॥ सञ्जी०-अथेति । अथ धुरोऽवतारानन्तरं पुत्रकाम्ययाऽऽत्मनः पुत्रेच्छया 'कास्यच्च'इति पुत्रशब्दारकाम्यच्प्रत्ययः। 'अप्रत्ययात्' इति पुत्रकाम्यतेरप्रत्ययः। ततष्टाप । तया तौ दम्पती जायापती । राजदन्तादिषु जायाशब्दस्य दमिति निपातनासाधुः । प्रयतौ पूतौ विधातारं ब्रह्माणमभ्यर्च्य ‘स खलु पुत्रार्थिभिरुपास्यते' इति मान्त्रिकाः । गुरोः कुलगुरोर्वसिष्ठस्याश्रमं जग्मतुः पुत्रप्राप्त्युपायापेक्षयेति शेषः । ___अ०-पुत्रकाम्यया,प्रयतौ,तो, दम्पती, विधातारम्, अभ्यर्य, गुरोः, वसिष्ठस्य, आश्रमं, जग्मतुः। सुधा-अथ =मन्त्रिषु राज्यधुरः स्थापनानन्तरम्, पुत्रकाम्यया = सुतेच्छया, प्रयतौ पवित्रौ, तौ-सुदक्षिणादिलीपौ, दम्पती जायापती, विधातारम्-विधिम्, अभ्यर्च्य सम्पूज्य, गुरोः कुलगुरोः, वसिष्ठस्य-तन्नामकस्य महर्षेः ब्रह्मणो मानसपुत्रस्येति यावत् । आश्रमं वासस्थानं, जग्मतुः = ययतुः, पुत्रप्राप्त्युपायजिज्ञासयेति शेपः। को०-'मङ्गलानन्तरारम्भप्रश्नकान्येष्वथो अथ'इत्यमरः । 'स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधिः' इत्यमरः । 'पवित्रः प्रयतः पूतः' इत्यमरः। 'आत्मजस्त

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149