Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 57
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । सुधा-हे होतः ! हवनकर्तः !, त्वया भवता, विधिवद् यथाविधि, अग्निषु = वहिषु, आवर्जितं- हुतं, हविः सर्पिःप्रभृतिहवनद्रव्यं, (कर्तृ) अवग्रहविशोषिणांवृष्टिविघातेन शोषणशीलानां, सस्यानां धान्यानां 'वृक्षादीनाम् फलानाम्'। वृष्टिःवर्षणम्, भवति-जायते, वृष्टिरूपेण सस्यानि समुत्पादयन्तीति भावः ॥ स०-अवग्रहणमवग्रहः तेन विशेषेण शोष्टुं शीलमेघान्तेऽवग्रहविशोषिणस्तेपामवग्रहविशोषिणाम् ॥ को०-'हविः सर्पिषि होतव्ये' इति हैमः। 'विधिविधाने देवेऽपि' इति । 'वृक्षादीनां फलं सस्यम्' इति चामरः। ता०-हे यज्ञकर्त्तः ! त्वमाज्यादिकं यदग्नौ मत्कल्याणार्थं जुहोषि, तदेव वृष्टिभूत्वा सस्यानामुपजीवकम् भवति–अतोऽस्मद्राज्ये कुतो दैवीनाम् मानुषीणाञ्चा. पदा सम्भवः स्यात्। इन्दुः हे हवन करनेवाले ! 'गुरो! आपसे विधिपूर्वक अग्नि में दी हुई आहुति अकाल से सूखते हुए धानों 'वृक्षादिकों के फलों के सम्बन्ध में वृष्टि रूप होती है। स्वप्रजानां सर्वतोभावेन सुखित्वे त्वद्ब्रह्मवर्चसं हेतुरित्याह पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन्मदीयाः प्रजास्तस्य हेतुम्त्वद्ब्रह्मवर्चसम् ।। ६३ ॥ सञ्जी-पुरुषायुषेति । आयुर्जीवितकालः। पुरुषस्यायुः पुरुषायुषम् । वर्षशतमित्यर्थः । 'शतायुर्वै पुरुषः' इति श्रुतेः । 'अचतुरविचतुरसुचतुर०' इत्यादिसूत्रेणा प्रत्ययान्तो निपाताः । मदीयाः प्रजाः पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः । निरातङ्का निर्भयाः। 'आतङ्को भयमाशङ्का' इति हलायुधः। निरीतयोऽतिवृष्टयादि. रहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव बताध्ययनसंपत्तिरेव हेतुः। 'व्रताध्ययनसंपत्तिरित्येतद् ब्रह्मवर्चसम्' इति हलायुधः। ब्रह्मणो वर्ची ब्रह्मवर्चसम् । 'ब्रह्महस्तिभ्यां वर्चसः' इत्यप्रत्ययः। 'अतिवृष्टिरनावृष्टिमूषिकाः शलभाः शुकाः। अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः इति कामन्दकः। ___ अ०-मदीयाः, प्रजाः, पुरुषायुषजीविन्यः, निरातङ्काः, निरीतयः, 'सन्तीति' यत्, तस्य, त्वद्वह्मवर्चसम् एव, हेतुः । वा-मदीयाभिः प्रजाभिः पुरुषायुषजीविनीभिनिरातङ्काभिर्निरीतिभिः 'भूयत इति' तस्य त्वद्ब्रह्मवर्चसेनैव हेतुना 'भूयते'। सुधा-मदीया मत्सम्बन्धिन्यः, प्रजाः जनाः, पुरुषायुषजीविन्यावर्षशतजीवनशीलाः, 'शतायुर्वं पुरुषः' इति श्रुतेः। निरातङ्काः=निर्भयाः, निरीतयः अतिवृष्टयादि षड्बाधारहिताः, 'सन्तीति' शेषः । यत्, तस्य सर्वस्य, त्वद्ब्रह्मवर्चसम् भवबताध्ययनसम्पत्तिः, एव-निश्चयेन, हेतुः कारणं, 'वर्तते' इति शेषः।। जीविन्यः। ...स०-पुरुषस्यायुः, पुरुषायुषं पुरुषायुषं जीवितुं शीलं यासान्ताः पुरुषायुष को-'आयुर्जीवितकालः' इत्यमरः । 'रुक्तापशङ्कास्वातङ्क' इति । 'ईतिर्डिम्ब

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149