________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । सुधा-हे होतः ! हवनकर्तः !, त्वया भवता, विधिवद् यथाविधि, अग्निषु = वहिषु, आवर्जितं- हुतं, हविः सर्पिःप्रभृतिहवनद्रव्यं, (कर्तृ) अवग्रहविशोषिणांवृष्टिविघातेन शोषणशीलानां, सस्यानां धान्यानां 'वृक्षादीनाम् फलानाम्'। वृष्टिःवर्षणम्, भवति-जायते, वृष्टिरूपेण सस्यानि समुत्पादयन्तीति भावः ॥
स०-अवग्रहणमवग्रहः तेन विशेषेण शोष्टुं शीलमेघान्तेऽवग्रहविशोषिणस्तेपामवग्रहविशोषिणाम् ॥
को०-'हविः सर्पिषि होतव्ये' इति हैमः। 'विधिविधाने देवेऽपि' इति । 'वृक्षादीनां फलं सस्यम्' इति चामरः।
ता०-हे यज्ञकर्त्तः ! त्वमाज्यादिकं यदग्नौ मत्कल्याणार्थं जुहोषि, तदेव वृष्टिभूत्वा सस्यानामुपजीवकम् भवति–अतोऽस्मद्राज्ये कुतो दैवीनाम् मानुषीणाञ्चा. पदा सम्भवः स्यात्।
इन्दुः हे हवन करनेवाले ! 'गुरो! आपसे विधिपूर्वक अग्नि में दी हुई आहुति अकाल से सूखते हुए धानों 'वृक्षादिकों के फलों के सम्बन्ध में वृष्टि रूप होती है। स्वप्रजानां सर्वतोभावेन सुखित्वे त्वद्ब्रह्मवर्चसं हेतुरित्याह
पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुम्त्वद्ब्रह्मवर्चसम् ।। ६३ ॥ सञ्जी-पुरुषायुषेति । आयुर्जीवितकालः। पुरुषस्यायुः पुरुषायुषम् । वर्षशतमित्यर्थः । 'शतायुर्वै पुरुषः' इति श्रुतेः । 'अचतुरविचतुरसुचतुर०' इत्यादिसूत्रेणा
प्रत्ययान्तो निपाताः । मदीयाः प्रजाः पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः । निरातङ्का निर्भयाः। 'आतङ्को भयमाशङ्का' इति हलायुधः। निरीतयोऽतिवृष्टयादि. रहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव बताध्ययनसंपत्तिरेव हेतुः। 'व्रताध्ययनसंपत्तिरित्येतद् ब्रह्मवर्चसम्' इति हलायुधः। ब्रह्मणो वर्ची ब्रह्मवर्चसम् । 'ब्रह्महस्तिभ्यां वर्चसः' इत्यप्रत्ययः। 'अतिवृष्टिरनावृष्टिमूषिकाः शलभाः शुकाः। अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः इति कामन्दकः। ___ अ०-मदीयाः, प्रजाः, पुरुषायुषजीविन्यः, निरातङ्काः, निरीतयः, 'सन्तीति' यत्, तस्य, त्वद्वह्मवर्चसम् एव, हेतुः । वा-मदीयाभिः प्रजाभिः पुरुषायुषजीविनीभिनिरातङ्काभिर्निरीतिभिः 'भूयत इति' तस्य त्वद्ब्रह्मवर्चसेनैव हेतुना 'भूयते'।
सुधा-मदीया मत्सम्बन्धिन्यः, प्रजाः जनाः, पुरुषायुषजीविन्यावर्षशतजीवनशीलाः, 'शतायुर्वं पुरुषः' इति श्रुतेः। निरातङ्काः=निर्भयाः, निरीतयः अतिवृष्टयादि षड्बाधारहिताः, 'सन्तीति' शेषः । यत्, तस्य सर्वस्य, त्वद्ब्रह्मवर्चसम् भवबताध्ययनसम्पत्तिः, एव-निश्चयेन, हेतुः कारणं, 'वर्तते' इति शेषः।। जीविन्यः। ...स०-पुरुषस्यायुः, पुरुषायुषं पुरुषायुषं जीवितुं शीलं यासान्ताः पुरुषायुष
को-'आयुर्जीवितकालः' इत्यमरः । 'रुक्तापशङ्कास्वातङ्क' इति । 'ईतिर्डिम्ब