________________
रघुवंशमहाकाव्यम्
[प्रथम:प्रवासयोः' इत्यमरः । डिम्वो विप्लवः स च सप्तविधस्तद्यथा-'अतिवृष्टिरनावृष्टिः शलभा मूषिकाः शुकाः । स्वचक्रं परचक्रञ्च सप्तैता ईतयः स्मृताः' इति चामरः।
ता०-मदीयाः प्रजास्त्वदनुष्ठितव्रतवेदवेदाङ्गाध्ययनसम्पत्त्यैव दीर्घजीविन्यो निर्भयाः सप्तविधोपद्रवेणातिवृष्ट्यादिकेन रहिताः सन्ति नान्येन हेतुना। ___ इन्दुः-जो मेरी प्रजायें, पुरुष की आयु 'सौ वर्ष तक जीने वाली, निर्भय, और ईति, अतिवर्पा, सूखा, चूहा, टिड्डी, सुग्गा, 'विपक्षी' राजाओं की चढ़ाई से बची हुई हैं सो इन सबों का कारण आपका ब्रह्मतेज 'सदाचार वेदवेदाङ्गाध्ययन से उत्पन्न पुण्य' ही है ॥ ३ ॥ भवादृशेन मद्गुरुणा सर्वं मे सुखं भवतीत्याह
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना।
सानुबन्धाः कथं न स्यु संपदो मे निरापदः ।। ६४॥ सञ्जी०-त्वयैवमिति । ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वयैवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य । अत एव निरापदो व्यसनहीनस्य मे सम्पदः सानुबन्धाः सानुस्यूतयोऽविच्छिन्ना इति यावत् । कथं न स्युः । स्युरेवेत्यर्थः।
अ०-ब्रह्मयोनिना, गुरुणा, त्वया, एवं, चिन्त्यमानस्य, 'अत एव' निरापदः, मे सम्पदः, सानुबन्धाः, कथं, न, स्युः। वा०-ब्रह्मयोनिना त्वया गुरुणैवं चिन्त्यमानस्य निरापदो मे सानुबन्धाभिः कथं न भूयते ।
सुधा-ब्रह्मयोनिना=परमेष्ठिपुत्रेण, वशिष्ठेनेत्यर्थः । गुरुणा-पूज्येन, आचार्यत्यर्थः। त्वया भवता, एवम् = उक्तप्रकारेण, चिन्त्यमानस्य = स्मर्यमाणस्य, निरापदः%= विपद्रहितस्य, मेमम, सम्पदा-लम्पत्तयः, सानुबन्धाः=अविच्छिन्ना, कथं =केन प्रकारेण, न= नहि, स्युः =भवेयुः, अपि तु स्युरेवेति भावः ।
स०-ब्रह्मा योनिः कारणं यस्य स तेन ब्रह्मयोनिना।।
को-अनुवन्धस्तु वन्धे स्याद्दोषोत्पादे विनश्वरे । मुख्यानुयायिवाले च प्रकृतस्यानुवर्त्तने' इति मेदिनी । 'सम्पद् भूतौ गुणोत्कर्षे हारभेदेऽपि च स्त्रिया' इति । 'सम्पदि, सम्पत्तिः श्रीश्च लक्ष्मीश्च' इति मेदिन्यमरश्च । __ ता०-ब्रह्मपुत्रेण भवता गुरुणा स्मर्यमाणस्य मे कुतो दुःखं स्यात् ? कुतश्च न स्थिरा सम्पत्तिः स्यात् अपि तु केवलं सम्पत्तिरेव स्यात् ।
इन्दुः-'जब' ब्रह्मपुत्र आप 'मेरे' गुरु हैं और 'सर्वदा' उक्त प्रकार से 'मेरे कल्याण को' चिन्ता किया करते हैं। तो फिर' आपत्ति से रहित मेरी सम्पत्ति 'निरन्तर' अविच्छिन्न 'स्थिर' क्यों न रहे ॥ ६ ॥ संप्रत्यागमनप्रयोजनमाह
किन्तु वहां तवैतस्यामसदृशप्रजम् । न मामवात सद्वीपा रत्नसूराप मेदिनी ।। ६५ ।।