________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।
सञ्जी०-किन्विति । किन्तु तवैतस्यां वध्वां स्नुषायाम् । 'वधूर्जाया स्नुषा चैव' इत्यमरः । अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सद्वीपाऽपि । रत्नानि सूयत इति रत्नसूरपि । 'सत्सूद्विष०' इत्यादिना क्विप। मेदिनी नावति न प्रीणाति । अवधातू रक्षणगतिप्रीत्याद्यर्थेषूपदेशादत्र प्रीणने । रत्नसूरपीत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लायमिति सूचितम् ।
अ०-किन्तु, तव, एतस्यां, वध्वाम्, अदृष्टसदृशप्रजम्, मां, सद्वीपा, रत्नसुः, अपि, मेदिनी, न अवति । वा०-किन्तु तवतस्यां वध्वामदृष्टसदृशप्रजोऽहं सदीपया रत्नसुवाऽपि मेदिन्या न अव्ये। __ सुधा-किन्तु, तब=भवतः, एतस्याम् = अस्याम्, 'पुरोवर्तिन्याम्' इत्यर्थः । वध्वां स्नुषायां सुदक्षिणायामिति यावद् । अदृष्टसध्शप्रजम्-अनवलोकितानुरूपसन्ततिम्, मांदिलीपं, सद्वीपासप्तद्वीपसहिता, रत्नसूः हीरकादिमहामणिप्रसविनी, अपि मेदिनी=मही, न= नहि, अवति=प्रीणाति । पुत्ररत्नाभावतो रत्नसूरियं वसुधा मां न प्रीणातीति भावः ।
स०-प्रकर्षेण जायत इति प्रजा, न दृष्टेत्यदृष्टा, अदृष्टा सदृशी प्रजा येन सोऽदृष्टसदृशप्रजः तमदृष्टसदृशप्रजम् । रमयन्तीति रत्नानि तानि सूयत इति रत्नसूः।
को०-'गोत्रा कुः पृथिवी पृथ्वी चमाऽवनिर्मेदिनी मही' इत्यमरः।
ता०-यद्यपि मच्छासनाधीनानां मह्यां महारत्नानि समुत्पद्यन्ते, परन्तु सुदक्षिणायां सर्वरत्नेषु श्रेष्ठस्य पुत्ररत्नस्याभावात् तानि महारत्नानि सन्तोषाय न प्रभवन्तीति।
इन्दुः-परन्तु आपकी इस शिष्य-वधू में अपने सदृश सन्तान होती हुई न देखनेवाले मुझको द्वीपों के सहित रत्नों को पैदा करनेवाली पृथ्वी भी नहीं भाती ॥६५॥ तदेव प्रतिपादयतिपुत्राभावेन पितृणां दुःखेन पिण्डग्रहणं भविष्यतीत्याह
नूनं मत्तः पर वंश्याः पिण्डविच्छेददर्शिनः।
न प्रकासमुजः श्राद्धे स्वधासंग्रहतत्पराः ।। ६६ ।। सञ्जी०-नूनमिति। मत्तः परं मदनन्तरम् ‘पञ्चम्यास्तसिल' पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदसुत्प्रेक्षमाणाः। वंशोद्भवा वंश्याः पितरः । स्वधेत्यव्ययं पितृभोज्ये वर्तते । तस्याः संग्रह तत्परा आसकाः सन्तः श्राद्ध पितृकर्मणि । 'पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्वतः' इत्यमरः। प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम् । 'कामं प्रकामं पर्याप्तम्' इत्यमरः। निर्धना ह्यापद्धनं कियदपि संन्दगृतीति भावः।
अ०-मत्तः परम् पिण्डविच्छेददर्शिनः, वंश्याः, स्वधासंग्रहतत्पराः, 'सन्तः' श्राद्धे, प्रकामभुजः, नूनं, न, भवन्ति ॥ वा०-मत्तः परं पिण्डविच्छेददर्शिभिः स्वधासङ्ग्रहतत्परैर्वश्यैः श्राद्धे प्रकामभुग्भिनं भूयते ॥