________________
रघुवंशमहाकाव्यम्
[प्रथम:तव मन्त्रैः कर्तृभिः । दृष्टं प्रत्यक्षं यल्लच्यं तन्मानं भिन्दन्तीति दृष्टलक्ष्यभिदो मे शराः प्रत्यादिश्यन्त इव । वयमेव समर्थाः किमेभिः पिष्टपेषकैरिति निराक्रियन्त इवेत्युत्प्रेक्षा। 'प्रत्यादेशो निराकृतिः' इत्यमरः । त्वन्मन्त्रसामर्थ्यादेव न पौरुषं फल तीति भावः।
अ०-दूरात् , प्रशमितारिभिः, मन्त्रकृतः, तव मन्त्रैः दृष्टलक्ष्यभिदः, मे, शराः, प्रत्यादिश्यन्ते, इव ॥ वा०-दूरात् प्रशमितारयो मन्त्रकृतस्तव मन्त्रा दृष्टलक्ष्यभिदो मे शरान् प्रत्यादिशन्तीव ॥
सुधा-दूरात्=परोक्ष एव प्रशमितारिभिः= शान्तरिपुभिः, मन्त्रकृतः=मन्त्रप्रयोक्तुः, तव भवतः वशिष्टस्येत्यर्थः । मन्त्रैः= वेदमन्त्रैः 'कर्तृभिः' दृष्टलक्ष्यभिदादृष्टिगोचरलक्षभेदनकर्तारः, मे= मम, शराः=बाणाः, प्रत्यादिश्यन्त इव = निरा क्रियन्त इव । मानुषीणामापदां विनाशस्तु त्वन्मन्त्रवलसामर्थ्यान्मद्वाणैरेव भवति ।
स०-प्रकर्पण शमिता अरयो यैस्ते प्रशमितारयस्तैः प्रशमितारिभिः । दृष्टञ्च तल्लच्यं दृष्टलक्ष्यं दृष्टलक्ष्यं भिन्दन्तीति दृष्टलक्ष्यभिदः॥ ___को-दूरं विप्रकृष्टकम्' इत्यमरः। 'रिपी वैरिसपत्नारिद्विषवेषणदुहृदः' इति च। 'लक्षं लच्यं शरव्यं च' इति । 'पृषत्कबाणविशिखा अजिह्मगखगाशुगाः । कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः' इति चामरः॥
ता०-परोक्ष एव वैरिणो विनाशयन्ति, त्वत्प्रयुक्ता मन्त्रा अतस्तदपेक्षया प्रत्यक्षलक्ष्यभेदिनो मे बाणा व्यर्था एव, अर्थाद-दूरादेव वैरिविनाशिनां त्वत्प्रयुक्तमन्त्राणां सामर्थ्यादेव मबाणाः प्रत्यक्षलक्ष्यं भिन्दन्ति, अतस्तदपेक्षया व्यर्थाः पिष्टपेषका इव । सर्व तव मन्त्रवलादेव सिद्धयति न तु माहुबलादिति भावः॥
इन्दुः-मन्त्र के प्रयोग करने वाले आप के जो दूर ही से (परोक्ष ही से) वैरियोंके नाश करनेवाले मन्त्र हैं, वे प्रत्यक्ष ही में वेधनेवाले मेरे वाणोंको व्यर्थसे करते हैं। सम्प्रति दैविकापत्प्रतीकारमाह
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।।
वृष्टिभवति सस्यानामवग्रहविशोषिणाम् ।। ६२ ॥ समी०-हविरिति । हे होतः! त्वया विधिवदग्निज्वावर्जितं प्रक्षिप्तं हविराज्यादिकं कर्तृ । अवग्रहो वर्षप्रतिवन्धः । 'अवे ग्रहो वर्षप्रतिवन्धे' इत्यप् प्रत्ययः । 'वृष्टिवर्ष तद्विधातेऽवग्राहावग्रही समौ' इत्यमरः । तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति वृष्टिरूपेण सस्यान्युपजीवयतीति भावः । अत्र मनुः-'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याजायते दृष्टिर्वृष्टेरन्नं ततः प्रजाः। इति । ___ अ०–'हे होतः! त्वया, विधिवद्, अग्निषु आवर्जितं हविः, अवग्रहविशोषिणां सस्यानां, वृष्टिः, भवति । वा०-होतस्त्वया विधिवदग्निवावजितन हविषाऽवग्रहविशोषिणां सस्यानां वृष्टया भूयते ॥