Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 61
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।। जल को 'मेरे पूर्वज 'पितृगण' अपने 'दुःखजन्य' निःश्वासों से थोड़ा गरम 'जैसे हो से पीते हैं । ऐसा मैं' अनुमान 'करता हूँ' ॥ ६ ॥ पितॄणामुतौ दिलीपस्य दुःखप्रकाशनमित्याह सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः। प्रकाशश्वा प्रकाशश्च लोकालोक इवाचलः ॥ ६॥ सञ्जी०-स इति । इज्या यागः 'बजयजो वे क्यप' इति 'क्यप्प्रत्ययः । तथा विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन सन्तत्यभावेन निमीलितः कृतनिमीलनः सोऽहम् । लोक्यत इति लोकः। न लोक्यत इत्यलोकः, लोकश्चालोकश्चात्र स्त इति, लोकश्वासावलोकश्चेति वा, लोकालोकश्चक्रवालोऽचल इव । 'लोकालोकश्चक्रवालः' इत्यमरः । प्रकाशत इति प्रकाशश्च देवर्णविमोचनाद् । न प्रकाशत इत्यप्रकाशश्च पितणाविमोचनात् । पचायच। अस्मीति शेषः। लोकालोकोऽप्यन्तःसूर्यसंपर्काद्धहिस्तमोज्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ॥ ___ अ०-इज्याविशुद्धात्मा, प्रजालोपनिमीलितः, अहं, लोकालोकः, अचलः, इव, प्रकाशः, च, अप्रकाशः, च,'अस्मि' ॥ वा०-इज्याविशुद्धात्मना प्रजालोपनिमीलितेन तेन मया लोकालोकेनाचलेनेव प्रकाशेन चाप्रकाशेन च भूयते ॥ सुधा-इज्याविशुद्धामा यज्ञपवित्रान्तःकरणः, प्रजालोपनिमीलित सन्तत्यदर्शनकृतनयनपचमसङ्कोचा, साएवम्भूतः, अहं दिलीपः, लोकालोका-चक्रवालः, 'सप्तद्वीपवत्या भूमेः प्राकारभूतो गिरिरित्यर्थः । अचला= शैलः, इव= यथा, प्रकाशश्च =देवर्णविमोचनाद् द्योतश्च, दीप्त इत्यर्थः । पर्वतपक्षे-द्योत आतप इत्यर्थः अप्रकाशश्च =पितृणाविमोचना दीप्तश्च, म्लान इत्यर्थः, पर्वतपक्षेऽन्धकार इत्यर्थः । अस्मीति शेषः॥ स०-अततीत्यात्मा, यजनमिज्या तया विशुद्धः इज्याविशुद्धः इज्याविशुद्ध आत्मा यस्य स इज्याविशुद्धात्मा। प्रकर्षण जायत इति प्रजा तस्या लोपः प्रजालोपः तेन निमीलितः प्रजालोपनिमीलितः। को०-'इज्या दानेऽध्वरेऽर्चायां सङ्गमे स्त्री गुरौ त्रिषु' इति मेदिनी । 'प्रकाशोद्योत आतपः' इति चामरः । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इति चामरः ॥ ___ ता०-अहं दिलीपो यज्ञकरणेन देवर्णविमोचनात् प्रसन्नो विकसितनेत्रोस्मि, किन्तु सन्ततेरभावादत एव पितॄणाविमोचनादप्रसन्नोऽत एव निमीलितनयनश्चास्मीत्यतो लोकालोकाचलस्येव मे स्थितिः सम्प्रत्यस्ति ।। इन्दुः-यज्ञ करने के कारण शुद्ध चित्तवाला तथा पुत्रके न दिखाई पड़ने (न होने) से आँख मूंदे हुये 'अन्धा' जैसा मैं 'दिलीप' लोकालोक पर्वतकी भाँति प्रकाशवान् 'दीप्तिमान' और अप्रकाशवान् 'मलिन' हो रहा हूँ ॥ ६८॥

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149