Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 72
________________ ६८ रघुवंशमहाकाव्यम् [प्रथम अ०-इति वादिनः, एव, होतुः, अस्य, आहुतिसाधन' नन्दिनी, नाम, अनिन्ध धेनुः, वनाद्, आववृते । वा०-इति वादिन एव होतुराहुतिसाधनेन नन्दिन्या नामानिन्धया धेन्वा वनादाववृते । सुधा-इति वादिनः = एवं कथयतः, एव, होतुः = हवनकर्तुः, हवनशीलस्य, इति यावद् । अस्यम्मुनेः 'वशिष्ठस्य' इत्यर्थः। आहुतिसाधनं हवनसामग्रीकारण नन्दिनी-नन्दिनीत्याता, नाम प्रसिद्धावव्ययमेतद्, अनिन्द्या, अगा, प्रशस्तेति यावद् । धेनुः= नवसूतिका 'कामधेनुसुता' इत्यर्थः। वनाद् = विपिनाद्, आव वृते प्रत्याजगाम । स०-साध्यतेऽनेनेति साधनम् आहुतीनां साधनमाहुतिसाधनम् । को०-'इति स्वरूपे सान्निध्ये विवक्षानियमेऽपि च । हेतौ प्रकारप्रत्यक्षमप्रकर्षेष्ववधारणे । एवमर्थे समाप्तौ स्याद्' इति हैमः । 'एवौपम्येऽवधारणे' इति विश्वः।। ___ ता०-इत्थं दिलीपं प्रति कामधेनुस्थानापन्नायास्तत्सुताया नन्दिनीनाम्न्याः सेवां कर्तुं कथयतस्तस्य वशिष्ठस्य यज्ञ आहुतिसामग्रीदध्याज्यादिसाधनं नन्दिन नाम धेनुर्वनात् प्रत्याजगाम । तद्वर्णनक्षण एव नन्दिनीदर्शनेन तत्कार्यसिद्धिरविलम्बेन भविष्यतीति सूचिता। ___ इन्दुः-इस प्रकार से कहते हुए ही उन बशिष्ठमहर्षि की आहुति का साधन 'नन्दिनी' नाम से प्रसिद्ध 'नई ब्याई हुई' धेनु वन से लौटकर आई ॥ ८२ ॥ सम्प्रति धेनुं विशिनष्टि ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला | बिभ्रती श्वेतरोमात सन्ध्येव शशिनं नवम् ॥ ८॥ सञ्जी०-ललाटेति । पल्लववस्निग्धा चासौ पाटला च । संध्यायामप्येतद्विशेषणं योज्यम् । ललाट उदयो यस्य स ललाटोदयः तमाभुग्रमीषटकम् । 'आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि' इत्यमरः । 'ओदितश्च' इति निष्ठा तस्य नरवम् । श्वेतरो. माण्येवाङ्कस्तं बिभ्रती । नवं शशिनं विभ्रती संध्येव स्थिता। ___ अ०-पल्लवस्निग्धपाटला, ललाटोदयम्, आभुग्नं, श्वेतरोमाई, बिभ्रती, नवं, शशिनम् 'विभ्रती' सन्ध्या, इव 'स्थिता'। वा०-पल्लवस्निग्धपाटलया ललाटोदयमाभुग्नं श्वेतरोमाकं विभ्रत्या नवं शशिनं बिभ्रत्या सन्ध्ययेव स्थितया 'नन्दिन्या वनादाववृते' . सुधा-पल्लवस्निग्धपाटला=किसलयमसणश्वेतमिश्ररक्तवर्णा, सन्ध्यापेक्षेपीदमेव विशेषणम् । ललाटोदयम्भालस्थलोन्नतिकम् 'भालोद्भूतम्' इति यावद् । आभुग्नम् = ईषत्कुटिलं, श्वेतरोमाईधवललोमलक्षणम्, बिभ्रती= दधाना, नवं% नूतनं, 'द्वितीयातिथावुदितम्' इति भावः। शशिनं चन्द्रम, 'बिभ्रती' सन्ध्या= पितृप्रसूः, सन्ध्याकाल इति यावद् । इव= यथा, 'स्थिता' इति शेषः ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149