Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः]
MEM
M
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् | नस्तैरुटजद्वाररोधिभिः। भाग एव भागधेयः नीवाराणां भागधेयो नीवारभागधेयः तस्योचिताः नीवारभागधेयोचिताः, तैर्नीवारभागधेयोचितैः। ___ को-मुनीनां तु पर्णशालोटजोऽस्त्रियाम्' इति । 'स्त्री द्वारिं प्रतीहार' इति । 'आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे' इति । 'तृणधान्यानि नीवाराः' इति । 'अंशभागौ तु वण्टके' इति सर्वत्राप्यसरः । 'उचितं प्रोक्तमभ्यस्ते मिते ज्ञाते समक्षसे' इति विश्वप्रकाशः।
ता०-ऋषिपत्नीनामपत्यानि यथा तृणधान्यभागग्रहणार्थं पर्णशालाद्वारं रुद्भवा। तिष्ठन्ति, तथैव मृगा अपि सर्वत्रासन् ।
इन्दुः-तृणधान्य के भाग को पाने वाले, 'तथा' पर्णशाला 'कुटी के द्वार को रोकने वाले, ऋषिपत्नियों की सन्तानों की तरह मृगों से भरे हुये, 'आश्रम में पहुँचे ॥५०॥ आश्रमस्थ पक्षिणां सद्यः सेचिततरुमूलजलपानमित्याह
पसेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहङ्गानामालवालाम्बुपायना ।। ५१ ।। सञ्जी०-सेकान्ते वृक्षमूलसेचनावसाने सुनिकन्याभिः सेक्त्रीभिः । आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनाम् । 'स्यादालवालमावालसावापः' इत्यमरः। विहङ्गानां पक्षिणां विश्वासाय विश्रम्भाय । 'समौ विश्रम्भविश्वासौ' इत्यमरः । तत्क्षणे सेकक्षण उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिस्तम् । ह्रस्वार्थे कप्रत्ययः। __ अ०-सेकान्ते, मुनिकन्याभिः, आलवालाम्बुपायिनां, विहङ्गाना, विश्वासाय, तत्क्षणोज्झितवृक्षकम्, 'आश्रमं प्रापत्' वा०-आलवालाम्बुपायिनां विहङ्गानां विश्वासाय मुनिकन्याभिः सेकान्ते तत्क्षणोज्झितवृक्षकः आश्रमः प्रापि।
सुधा-सेकान्ते वृक्षकमूलसेचनावसाने, मुनिकन्याभिः= वाचंयमकुमारीभिः (कीभिः) सेक्त्रीभिरिति शेषः । आलवालाम्बुपायिनां जलावापप्रदेशजलपानशीलानां, विहङ्गानाम् = पक्षिणां, विश्वासाय = विश्रम्भाय, तत्क्षणोज्झितवृक्षकं तत्समयपरित्यक्तहस्वतरम्, 'आश्रमं प्रापत्' ।
स-तञ्च तत् क्षणं तत्क्षणं तस्मिन्नुज्झितास्तत्क्षणोज्झिताः ह्रस्वा वृक्षा वृक्षकाः तत्क्षणोज्झिता वृक्षका यस्मिन् स तत्क्षणोज्झितवृक्षकस्तं तत्क्षणोज्झितवृक्षकम् । आलवालेष्वम्बु आलवालाम्बु तत्पातुं शीलमेषान्ते आलवालाम्वुपायिनः तेषामालवालाम्बुपायिनाम् । __को-'अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु' इति मेदिनी। 'वृत्तो महीरुहः शाखी विटपी पादपस्तरुः' इति । 'खगे विहङ्गविहगविहङ्गमविहायसः। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इति । 'अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्' इति चामराः।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149