Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः ]
सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् |
छतत्रत्यो हुतहवनीयद्द्रव्यगन्धयुक्तो धूम इत्याहअभ्युत्थिताग्निपिशुनैरतिथीनाश्र मोन्मुखान् । पुनानं पवनोद्भूतैर्धूमैराहुतिगन्धिभिः ।। ४३ ।।
सञ्जी० - अभ्युत्थितेति । अभ्युत्थिताः प्रज्वलिताः । होमयोग्या इत्यर्थः । समिद्धेऽग्नावाहुतीर्जुहोति ) इति वचनात् । तेषामग्नीनां पिशुनैः सूचकैः, पवनोदूधूतैः । आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनस्तैर्धूमैराश्रमोन्मुखानतिथीन् पुनानं पवित्रीकुर्वाणम् ॥ कुलकम् ॥
-
अ० – अभ्युत्थिताग्निपिशुनैः, पवनोद्धूतैः, आहुतिगन्धिभिः, धूमैः, आश्रमोन्मुखान्, अतिथीन्, पुनानम् ' आश्रमं प्रापत्' । वा० - अभ्युत्थिताग्निपिशुनैः पवनोद्धूतैराहुतिगन्धिभिर्धूमैराश्रमोन्मुखानतिथीन् पुनानः 'आश्रमः प्रापि' ।
=
सुधा - अभ्युत्थिताग्निपिशुनैः प्रज्वलितवह्निसूचकैः, पवनोद्धूतैः वातोत्क्षिप्तैः, आहुतिगन्धिभिः = हवनीयद्रव्यगन्धवद्भिः, धूमैः = धूम्रः, आश्रमोन्मुखान् = वशिष्ठस्थानमभिलक्ष्यीकृत्यागन्तुमुत्सुकान्, अतिथीन् = अभ्यागतान् । पुनानम् = पवित्रीकुर्वाणम्, 'आश्रमं प्रापत्' ।
४५
स॰—अङ्गन्तीत्यग्नयः अभ्युत्थिताश्च तेऽग्नयोऽभ्युत्थिताग्नयः तेषां पिशुना अभ्युस्थितान्निपिशुनाः तैरभ्युत्थिताग्निपिशुनैः आश्रम उन्मुखा आश्रमोन्मुखास्तानाश्रमोन्मुखान् । पुनातीति पवनः तेनोद्भूताः पवनोद्भूतास्तैः पवनोद्भूतैः । आहवनमाहुतिस्तस्या गन्ध आहुतिगन्धः सोऽस्त्येषामित्याहुतिगन्धिनः तैराहुतिगन्धिभिः ।
को० - 'पिशुनं कुङ्कुमेऽपि च । कपिवक्त्रे च काके ना सूचककरयोस्त्रिषु' इति मेदिनी । ' स्युरावेशिक आगन्तुरतिथिर्ना गृहागते' इत्यमरः । ' आश्रमो ब्रह्मचर्यादौ वानप्रस्थे मठे वने' इति मेदिनी । 'नभस्वद्वातपवनपवमानप्रभञ्जनाः' इत्यमरः । 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः' इति विश्वः ।
ता० - वशिष्ठादिमुनिकृत होमगन्धमिश्रितैः पवनोत्क्षिप्तैर्धूमैरतिथीन् पवित्रीकुर्वाणमाश्रमं प्रापद् । इति कुलकं समाप्तम् ।
इन्दुः - प्रज्वलित अग्नि को सूचित करने वाली ' तथा 'वायुसे फैले हुए आहुति गन्ध से मिले हुए धूएँ से आश्रम की ओर आने के लिए उन्मुख अतिथियों को पवित्र करने वाले 'आश्रम' में पहुँचे ॥ ५३ ॥
༢༤༠༨
अथ प्रेशी
आश्रमप्राप्त्यनन्तरं रथादवतरणमित्याह
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः .
तामवारोहयत्पत्नीं रथादवततार च ॥ ५४ ॥
सञ्जी० - अथेति । अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिं, धुरं, वहन्तीति धुर्या युग्याः । 'धुरो यड्ढकौ' इति यत्प्रत्ययः । 'धूर्वहे धुर्यधौरेय धुरीणाः सधुर
युग = घोसरशन कद्यसा
91
,

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149