Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः ]
सञ्जीविनी - सुधेन्दुटीकात्रयोपेतम् ।
वशिष्ठो दिलीपं राज्यविषयककुशलं पृष्टवानित्याहतमातिथ्य क्रियाशान्तरथक्षोभ परिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं सुनिः ॥ ५८ ॥ सञ्जी० - तमिति । मुनिः अतिथ्यर्थमातिथ्यम् । 'अतिथेर्न्यः' इति न्यप्रत्ययः । आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम् । राज्यमेवाश्रमस्तत्र मुनिं मुनितुल्यमित्यर्थः । तं दिलीपं राज्ये कुशलं पप्रच्छ पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम् । यद्यपि राज्यशब्दः पुरोहितादिष्वन्तर्गतत्वाद्वाजकर्मवचनः । तथाऽप्यन्र ‘सप्ताङ्गवचनः' । 'उपपन्नं ननु शिवं सप्तस्वङ्गेषु' इत्युत्तर विरोधात् । तथाऽऽह मनुः ‘स्वाम्यमात्यपुरं राष्ट्र कोशदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते ॥' इति । तत्र 'ब्राह्मणं कुशलं पृच्छेत्तत्र बन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥' इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाद् ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम् । अत एवोक्तं- 'राज्या• श्रममुनिम्' इति ।
अ० - मुनिः, आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं राज्याश्रममुनिं तं राज्ये, कुशलम् पप्रच्छ ।
राज्याश्रममुनी राज्ये कु
वा० – मुनिनाऽऽतिथ्यक्रियाशान्तरथक्षोभपरिश्रमो शलं पप्रच्छे।
४६
सुधा - मुनिः = वाचंयमः, वशिष्ठ इत्यर्थः । आतिथ्य क्रियाशान्तरथक्षोभपरिश्रमं= गृहागतसत्कार व्यापारविगतस्यन्दनसञ्चलनखेदं, राज्याश्रममुनिं = राज्यरूपाश्रमे मुनितुल्यं, तं = दिलीपं, राज्ये राज्यविषये, स्वाम्यमात्य सुहृत्को शराष्ट्रदुर्ग बलात्मकइत्यर्थः । कुशलं = क्षेमम्, पप्रच्छ = पृष्टवान् ।
स० --- अतति निरन्तरं गच्छतीत्यतिथिः, अविद्यमाना तिथिर्यस्यागमने सोडतिथिः अतिथ्यर्थमातिथ्यम् तस्य क्रिया, आतिथ्यक्रिया तथा शान्तः, आतिथ्यक्रियाशान्तः, रमन्तेऽस्मिन्निति रथः तस्य क्षोभो रथक्षोभः तेन परिश्रमो रथक्षोभपरिश्रमः आतिथ्यक्रियाशान्तो रथक्षोभपरिश्रमो यस्य स आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमस्तमातिथ्यक्रियाशान्तरथक्षोभ परिश्रमम् राज्ञः कर्म भावो वा राज्यम्, राज्यमेवाश्रमो राज्याश्रमः तस्मिन् मुनी राज्याश्रममुनिस्तं राज्याश्रममुनिम् ।
को०- 'क्रिया, कर्मणि चेष्टायां करणे सम्प्रधारणे । आरम्भोपायशिक्षाऽर्थचिकि त्सानिष्कृतिष्वपि' इति विश्वः । ' याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः' इति । 'वाचंयमो मुनिः' इति चामरः ॥
ता० - वशिष्ठानुज्ञया मुनिकृतातिथिसत्कारव्यापारेणापनीतमार्गश्रमं दिलीपं मुनिर्वशिष्ठो राज्ये स्वाम्यमात्यपुर राष्ट्रकोशबल सुहृदात्मके कुशलं पृष्टवान् ॥
इन्दुः – मुनि 'वशिष्ठ' ने अतिथिसत्कार के द्वारा रथ के हिलने से उत्पन्न हुई ४ रघु० १ सर्ग

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149