Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 44
________________ रघुवंश महाकाव्यम् [ प्रथमः चित्राऽऽख्यताराचन्द्रयोः, इव = यथा, योगे = सङ्गतौ, सतीति शेषः । काऽपि = अनिर्वाच्या, अभिख्या = शोभा, आसीद्=अभवत् । स० - चित्रा च चन्द्रमाश्चेति चित्राचन्द्रमसौ तयोश्चित्राचन्द्रमसोः । ४० को० - 'आकल्पवेषौ नेपथ्यम् प्रतिकर्म प्रसाधनम्' इत्यमरः । 'अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका च' इत्यमरः । 'योगोऽपूर्वार्थसम्प्राप्तां सङ्गतिध्यानयुक्तिषु' इति मेदिनी । ता० - यथा शिशिरान्ते चैत्र पूर्णिमायां चित्राचन्द्रमसोः सङ्गतौ सत्यां शोभाऽ लौकिकी भवति, तथैव निर्मलवेषयोः सुदक्षिणा दिलीपयोरपि शोभाऽभूदिति । इन्दुः-जाते हुये उज्ज्वल वेष वाले उन दोनों (सुदक्षिणा और दिलीप ) की तुषार से निर्मुक्त हुये चित्रा नक्षत्र और चन्द्रमा के समान योग होने पर अनिर्वच नीय शोभा हुई ॥ ४६ ॥ पत्न्यै मार्गेऽद्भुतवस्तुजातं दर्शयतो दिलीपस्य गमनमित्याहतत्तद् भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः । अपि लङ्घितमध्वानं बुबुधे न बुधोपमः || ४७ ॥ सञ्जी० - तत्तदिति । प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः । योगदर्शनीय इत्यर्थः । भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयँलङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान् । बुधः सौम्य उपमोपमानं यस्येति विग्रहः । इदं विशेषणं तत्तदर्शयन्नित्युपयोगितयैवास्य ज्ञातृत्वसूचनार्थम् । अ० - प्रियदर्शनः, बुधोपमः, भूमिपतिः, तत्तत्, परन्यै, दर्शयन्, लङ्घितम्, अपि, अध्वानं न, बुबुधे । वा० - प्रियदर्शनेन बुधोपमेन भूमिपतिना तत्तद् 'वस्तु' पत्न्यै दर्शयता लङ्घितोऽप्यध्वा न बुबुधे । सुधा – प्रियदर्शनः = हृद्यावलोकनः, बुधोपमः = चन्द्रपुत्रोपमानः, भूमिपतिः = धराधिपः, दिलीप इति शेषः । तत्तद् = अद्भुतं वस्तु, पत्न्यै = भार्यायै, दर्शयन् = अवलोकयन्, लङ्घितमपि = अतिवाहितमपि, अध्वानम् = पन्थानं, न = = नहि, बुबुधे=अबोधिष्ट | स०- - पातीति पतिः भवन्ति भूतान्यस्यामिति भूमिः तस्याः पतिर्भूमिपतिः । को० - वुधवृद्धौ पण्डितेऽपि' 'अपिशब्दात् सौम्येऽपि' इति । ' उपमोपमानं स्याद्' इति सर्वत्राप्यमरः । ता - 'सौम्यवपुर्दिलीपः सुदक्षिणायै मार्गेऽद्भुतवस्तूनि प्रदर्शयन् 'कियद्दूरंमागतोऽस्मीति' न ज्ञातवानिति । इन्दुः – देखने में सुन्दर, 'अत एव' चन्द्रपुत्र बुध के समान, राजा 'दिलीप' अद्भुत वस्तुओं को रानी 'सुदक्षिणा' को दिखलाते हुये लांघे हुये ( पीछे छोड़े हुये) मार्ग को भी न जान सके ॥ ४७ ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149