________________
रघुवंश महाकाव्यम्
[ प्रथमः
चित्राऽऽख्यताराचन्द्रयोः, इव = यथा, योगे = सङ्गतौ, सतीति शेषः । काऽपि = अनिर्वाच्या, अभिख्या = शोभा, आसीद्=अभवत् ।
स० - चित्रा च चन्द्रमाश्चेति चित्राचन्द्रमसौ तयोश्चित्राचन्द्रमसोः ।
४०
को० - 'आकल्पवेषौ नेपथ्यम् प्रतिकर्म प्रसाधनम्' इत्यमरः । 'अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका च' इत्यमरः । 'योगोऽपूर्वार्थसम्प्राप्तां सङ्गतिध्यानयुक्तिषु' इति मेदिनी ।
ता० - यथा शिशिरान्ते चैत्र पूर्णिमायां चित्राचन्द्रमसोः सङ्गतौ सत्यां शोभाऽ लौकिकी भवति, तथैव निर्मलवेषयोः सुदक्षिणा दिलीपयोरपि शोभाऽभूदिति ।
इन्दुः-जाते हुये उज्ज्वल वेष वाले उन दोनों (सुदक्षिणा और दिलीप ) की तुषार से निर्मुक्त हुये चित्रा नक्षत्र और चन्द्रमा के समान योग होने पर अनिर्वच नीय शोभा हुई ॥ ४६ ॥
पत्न्यै मार्गेऽद्भुतवस्तुजातं दर्शयतो दिलीपस्य गमनमित्याहतत्तद् भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः || ४७ ॥
सञ्जी० - तत्तदिति । प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः । योगदर्शनीय इत्यर्थः । भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयँलङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान् । बुधः सौम्य उपमोपमानं यस्येति विग्रहः । इदं विशेषणं तत्तदर्शयन्नित्युपयोगितयैवास्य ज्ञातृत्वसूचनार्थम् ।
अ० - प्रियदर्शनः, बुधोपमः, भूमिपतिः, तत्तत्, परन्यै, दर्शयन्, लङ्घितम्, अपि, अध्वानं न, बुबुधे । वा० - प्रियदर्शनेन बुधोपमेन भूमिपतिना तत्तद् 'वस्तु' पत्न्यै दर्शयता लङ्घितोऽप्यध्वा न बुबुधे ।
सुधा – प्रियदर्शनः = हृद्यावलोकनः, बुधोपमः = चन्द्रपुत्रोपमानः, भूमिपतिः = धराधिपः, दिलीप इति शेषः । तत्तद् = अद्भुतं वस्तु, पत्न्यै = भार्यायै, दर्शयन् = अवलोकयन्, लङ्घितमपि = अतिवाहितमपि, अध्वानम् = पन्थानं, न = = नहि, बुबुधे=अबोधिष्ट |
स०- - पातीति पतिः भवन्ति भूतान्यस्यामिति भूमिः तस्याः पतिर्भूमिपतिः । को० - वुधवृद्धौ पण्डितेऽपि' 'अपिशब्दात् सौम्येऽपि' इति । ' उपमोपमानं स्याद्' इति सर्वत्राप्यमरः ।
ता - 'सौम्यवपुर्दिलीपः सुदक्षिणायै मार्गेऽद्भुतवस्तूनि प्रदर्शयन् 'कियद्दूरंमागतोऽस्मीति' न ज्ञातवानिति ।
इन्दुः – देखने में सुन्दर, 'अत एव' चन्द्रपुत्र बुध के समान, राजा 'दिलीप' अद्भुत वस्तुओं को रानी 'सुदक्षिणा' को दिखलाते हुये लांघे हुये ( पीछे छोड़े हुये) मार्ग को भी न जान सके ॥ ४७ ॥