________________
सर्गः ]
सञ्जीविनी -सुधेन्दुटीकात्रयोपेतम् |
सुदक्षिणादिलीप योर्वशिष्ठाश्रमप्रापणमित्याह
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ ४८ ॥ सञ्जी०- - स इति । दुष्प्रापयशा दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः । श्रान्तवाहनो दूरोपगमनात्क्कान्तयुग्यः । महिष्याः सखा महिषीसखः 'राजाह :सखिभ्यष्टच्' इति टच् प्रत्ययः । सहायान्तरनिरपेक्ष इति भावः । स राजा सायं सायं काले संयमिनो नियमवतस्तस्य महर्षेर्वशिष्टस्याश्रमं प्रापत्प्राप । पुषादित्वादङ् । अ० - दुष्प्रापयशाः श्रान्तवाहनः, महिषीसखः, सः, सायं, संयमिनः, तस्य, महर्षेः, आश्रमम्, प्रापत् । वा० - दुष्प्रापयशसा श्रान्तवाहनेन महिषीसखेन तेन सायं संयमिनस्तस्य महर्षेराश्रमः प्रापि ।
४१
सुधा - दुष्प्रापयशाः = अन्यदुर्लभकीर्तिः, श्रान्तवाहनः = = परिक्लान्तयुग्यः दूरमार्गगमनजनितायासेन परिक्षान्ततुरङ्गम इति भावः । महिषीसखः = कृताभिषेकपत्नीसहायः, सुदक्षिणासहित इत्यर्थः । सः = दिलीपः सायं = सायंकाले, संयमिनः = इन्द्रियनिग्रहवतः, तस्य = पूर्वोक्तस्य, निजकुलगुरोरिति भावः । महर्षेः =, अतिसत्यवचसः वशिष्ठस्येति यावद् । आश्रमम् = पर्णकुटीम्, प्रापत् = प्राप ।
स० - दुःखेन प्राप्तुं शक्यं दुष्प्रापम्, दुष्प्रापं यशो यस्य स दुष्प्रापयशाः । माते पूज्यत इति महिषी, तस्याः सखा महिषीसखः ।
को० - ' शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः' इति । 'ऋषयः सत्यवचसः' इति । ' कृताभिषेका महिषी' इति । 'अथ मित्रं सखा सुहृद्' इति सर्वत्राप्यमरः । दा० - अन्यदुर्लभ कीर्तिः सुदक्षिणासहितो दिलीपः सन्ध्यासमये वशिष्ठाश्रमं प्रापत् इन्दुः - 'दूसरों के लिवे, दुर्लभ यश वाले, थके हुए हैं वाहन जिसके, ऐसे पटरानी सुदक्षिणा के सहित वे राजा दिलीप, सायंकाल के समय संयम रखने वाले उन पूर्वोक्त कुलगुरु महर्षि वशिष्ठ के आश्रम में पहुँचे ॥ ४८ ॥ तमाश्रमं विशिनष्टि
वनान्तरादुपावृत्तै समित्कुशफलाहरैः । पूर्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः ॥ ४६ ॥
सञ्जी॰—वनान्तरादिति । वनान्तरादन्यस्माद्वनादुपावृत्तैः प्रत्यावृत्तैः । समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहरास्तैः 'आङि ताच्छील्ये' इति हरतेराङ्पूर्वादप्रत्ययः । अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः । प्रत्युद्याताः प्रत्युद्गतास्तैः तपस्विभिः पूर्यमाणम् । 'प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति' इति श्रुतेः । यथाsse - 'कामं पितरं प्रोपितवन्तं प्रत्याधावन्ति एवमेतमग्नयः प्रत्याधावन्ति सशकलान्दारुनिवाहरन्' इति ।