________________
रघुवंशमहाकाव्यम्
[प्रथमःअ०-तेन, सन्तानार्थाय, विधये, स्वभुजाद्, अवतारिता, जगतः, गुर्वी, धूः, सचिवेषु, निचिक्षिपे । वा०-स सन्तानार्थाय विधये स्वभुजादवतारितां जगतो गुवी, धुरं, सचिवेषु निचिक्षेप।
सुधा-तेन = राज्ञा दिलीपेन, सन्तानार्थाय = वंशप्रयोजनाय, पुत्रायेति यावत् । विधये = विधानाय, अनुष्ठानायेति यावत् । स्वभुजाद् = आत्मवाहोः, अवतारिता = अवरोपिता, जगतः= लोकस्य, गुर्वी = दुर्भरा, धूः=भारः, कार्यस्येति शेषः । सचिवेषु = मन्त्रिषु, निचिक्षिपे-स्थापयामास।
स०-सन्तानोऽर्थः प्रयोजनं यस्यासौ सन्तानार्थस्तस्मै सन्तानार्थाय ।
को०-'वंशोऽन्ववायः सन्तानः' इत्यमरः । 'अर्थो हेतौ प्रयोजने' इति हैमः । 'विधिविधाने देवेऽपि' इत्यमरः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । 'गुरुस्तु गीष्पती श्रेष्टे गुरौ पितरि दुर्भरे' इति विश्वः । 'मन्त्री सहायः सचिवा' इत्यमरः। ___ता०--पुत्रप्रयोजनकमनुष्ठानं कर्तुं समुत्सुको दिलीपो राज्यभारं मन्त्रिषु स्थापयामास। ___ इन्दुः-उस राजा दिलीप ने सन्तानप्राप्ति के लिए अनुष्ठान करने के निमित्त अपने बाहु पर से उतारे हुए जगत् के बड़े भारी (प्रजापालनरूप कार्य-) भार को मन्त्रियों के ऊपर रख दिया ॥ ३४ ॥ पुत्रप्राप्तिकाम्यया दिलीपस्य स्वगुरोर्वसिष्ठत्याश्रमे गमनमित्याह
अथाभ्यय विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दम्पती वसिष्ठस्य गुरोजग्मतुराश्रमम् ॥ ३५ ॥ सञ्जी०-अथेति । अथ धुरोऽवतारानन्तरं पुत्रकाम्ययाऽऽत्मनः पुत्रेच्छया 'कास्यच्च'इति पुत्रशब्दारकाम्यच्प्रत्ययः। 'अप्रत्ययात्' इति पुत्रकाम्यतेरप्रत्ययः। ततष्टाप । तया तौ दम्पती जायापती । राजदन्तादिषु जायाशब्दस्य दमिति निपातनासाधुः । प्रयतौ पूतौ विधातारं ब्रह्माणमभ्यर्च्य ‘स खलु पुत्रार्थिभिरुपास्यते' इति मान्त्रिकाः । गुरोः कुलगुरोर्वसिष्ठस्याश्रमं जग्मतुः पुत्रप्राप्त्युपायापेक्षयेति शेषः । ___अ०-पुत्रकाम्यया,प्रयतौ,तो, दम्पती, विधातारम्, अभ्यर्य, गुरोः, वसिष्ठस्य, आश्रमं, जग्मतुः।
सुधा-अथ =मन्त्रिषु राज्यधुरः स्थापनानन्तरम्, पुत्रकाम्यया = सुतेच्छया, प्रयतौ पवित्रौ, तौ-सुदक्षिणादिलीपौ, दम्पती जायापती, विधातारम्-विधिम्, अभ्यर्च्य सम्पूज्य, गुरोः कुलगुरोः, वसिष्ठस्य-तन्नामकस्य महर्षेः ब्रह्मणो मानसपुत्रस्येति यावत् । आश्रमं वासस्थानं, जग्मतुः = ययतुः, पुत्रप्राप्त्युपायजिज्ञासयेति शेपः।
को०-'मङ्गलानन्तरारम्भप्रश्नकान्येष्वथो अथ'इत्यमरः । 'स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधिः' इत्यमरः । 'पवित्रः प्रयतः पूतः' इत्यमरः। 'आत्मजस्त