________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् | नयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी' इत्यमरः । 'दम्पती जम्पती जायापती भार्यापती व तौ' इत्यमरः । 'गुरुस्तु गीप्पती श्रेष्ठे गुरौ पितरि दुर्भरे' इति विश्वः।। .. ता०-पुत्रप्राप्त्युपायजिज्ञासया सुदक्षिणादिलीपौ ब्रह्माणमभ्यय॑ स्वकुलगुरोदिव्यचक्षुषो वसिष्ठस्याश्रमं जग्मतुः। ___ इन्दुः-मन्त्रियों के ऊपर राज्यभार सौंपने के अनन्तर पुत्र की कामना से पवित्र हो, वे दोनों स्त्रीपुरुष सुदक्षिणा और दिलीप ब्रह्मा की पूजा करके गुरु वसिष्ठ के आश्रम को गये ॥ ३५॥ तयोरेकरथेन वसिष्ठाश्रमगमनमित्याह
स्निग्धगम्भीरनिर्घोषमेक स्यन्दन मास्थितौ ।
प्रावृषेण्यं पयोवाह विधुदैरावताविव ।। ३६ ॥ सञ्जी०-स्निग्धेति। स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम् । प्रावृषि भवः प्रावृपेण्यः। 'प्रावृष एण्यः' इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव । आस्थितावारूढी जग्मतुरिति पूर्वेण सम्बन्धः । इरा आपः। 'इरा भूवाक्सुराऽप्सु स्यात्' इत्यमरः। इरावान्समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः । 'ऐरावतोऽभ्रमातङ्गरावणाभ्रमुवल्लभाः' इत्यमरः। 'अभ्रमातङ्गत्वाच्चाभ्रस्थरूपत्वात्' इति क्षीरस्वामी। अत एव मेघारोहणं विद्यत्साहचर्यञ्च घटते। किञ्च विद्युत ऐरावतसाहचर्यादेवैरावती संज्ञा। ऐरावतस्य स्न्यैरावतीति क्षीरस्वामी । तस्मात्सुष्छूक्तं विद्युदैरावताविवेति । एकरथारोहणोक्त्या कार्यसिद्धिबीजं दम्पत्योरत्यन्तसौमनस्यं सूचयति ।। ___ अ०-स्निग्धगम्भीरनि?षम्, एकं, स्यन्दनम्, प्रावृषेण्यम्, पयोवाह, विद्यदैरावती, इव, आस्थिती, 'तो जग्मतुः । वा०-स्निग्धगम्भीरनि?षमेकं स्यन्दनं प्रावृषेण्यं पयोवाहं विद्युदैरावताभ्यामिवास्थिताभ्यां 'ताभ्यां जग्मे ।।
सुधा-स्निग्धगम्भीरनिर्घोषम् =मधुरगम्भीरनिःस्वनम्, एकम् = अद्वितीयं, स्यन्दनं-रथं, प्रावृषेण्यं वर्षाकालिकम्, पयोवाहम् = मेघ, विद्युदैरावतीक्षगप्र. भाऽभ्रमातङ्गी, इवन्यथा, आस्थितौ आरूढी, 'तौ जग्मतुः' इति पूर्वश्लोकेन सम्वन्धः । एकरथारोहणोक्त्या कार्यसिद्धिकारणीभूता दम्पत्योमिथोऽत्यन्तमैत्री सूचिता । ___ को-'चिक्कणं महणं स्निग्धम्' इत्यमरः । 'स्वाननिर्घोपगिर्हादनादनिस्वाननिस्वनाः' इत्यमरः । 'एके मुख्यान्यकेवलाः' इत्यमरः । 'याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः' इत्यमरः। 'स्त्रियां प्रावृट् स्त्रियां भून्नि, वर्पाः' इत्यमरः। 'सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः। 'शम्पाशतहदा. हादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामनी विद्यञ्चञ्चला चपला अपि' इत्यमरः। __ ता०-यथा मेघारूढौ विद्यदैरावती तथैव, एकरथमारूढौ तौ सुदक्षिणादिलीपौ प्रययतुः।