________________
रघुवंशमहाकाव्यम् ।
[प्रथमः ___इन्दुः-मधुर और गम्भीर शब्द करने वाले, एक ही रथ पर वर्षा काल के मेघ के ऊपर चढ़े हुये, विजली और ऐरावत हाथी की भाँति वे दोनों सुदक्षिणा और दिलीप चले ॥३६॥ लेनाविरहितयोस्तयोर्गमने कारणमाह
मा भूदाश्रमपीडेति परिमेयपुरःसरौ। ___ अनुभावविशेषात्तु सेनापरिवृताविव ॥ ३७ ।। सञ्जी०-मा भूदिति । पुनः किंभूतौ दम्पती। आश्रमपीडा मा भून्मास्त्विति हेतोः । 'माङि लुङ्' इत्याशीरथै लुङ्। 'न मायोगे' इत्यडागमनिषेधः । परिमेयपुरःसरौ मितपरिचरौ । अनुभावविशेषात्तु तेजोविशेषात्सेनापरिवृताविव स्थितौ।। ___ अ०-'पुनः किम्भूतौ दम्पती' आश्रमपीडा, माभूद्, इति, परिमेयपुरःसरौ, अनुभावविशेषात्, तु, सेनापरिवृती, इव, 'तौ जग्मतुः'। वा०-आश्रमपीडया मा भावीति परिमेयपुरःसराभ्यामनुभावविशेषात्तु सेनापरिवृताभ्यामिव 'ताभ्यां जग्मे' ।
सुधा-'पुनः किम्भूतौ तौ दम्पती' आश्रमपीडा = वसिष्ठस्थानवाधा, मा भूद्= न ह्यस्तु, इति = अस्माद्, हेतोरिति शेषः । परिमेयपुरःसरौ=परिमिताप्रेसरौ स्वल्पसङ्ख्याकपरिचरपरिवृताविति यावत् । अनुभावविशेषात%प्रभावातिशयात्, तेजोऽतिशयादिति यावत् । तु = किन्तु, सेनापरिवृतौ = सैन्यसमन्वितो, इव-यथा, स्थितौ जग्मतुरिति शेषः ॥ ३७॥
स०-पुरः सरन्तीति पुरःसराः, राज्ञामने यायिनोऽनुचराः, परिमातुं शक्याः परिमेयाः, परिमेयाः पुरःसराः ययोस्तौ परिमेयपुर सरौ।
को०-'पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः' इत्यमरः। 'अनुभावः प्रभावे च सतां मतिविनिश्चये' इत्यमरः । 'ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी नमूः। वरूथिनी वलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः।
ता०-सैन्येन सह गमने जनसमुदायेन गुरोराश्रमपीडा भविष्यतीत्याशंक्याः ल्पपरिचरावपि सुदक्षिणादिलीपौ प्रभावाधिक्यादपरिमितपरिचरपरिवृताविव दृश्यमानी जग्मतुः। ___ इन्दुः-गुरु वसिष्ठ के आश्रम को पीडा न हो, इस कारण' से थोड़े 'इने-गिने' नौकरों (राजा के आगे-आगे चलने वालों) से युक्त होते हुये भी प्रभाव की अधिकता के कारण से सेना से घिरे हुये की भाँति 'दिखलाई पड़ते हुये' वे दोनो सुदक्षिणा और दिलीप चले जाते थे ॥ ३७॥ मार्गे तयोः सुखदवायुभिः सेव्यमानयोगमनमित्याह
सेव्यमानौ सुखस्पर्शः शालनिर्यासगन्धिभिः ।।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥३८॥ सञ्जी०-सेव्यमानाविति । पुनः कथंभूतौ ।सुखशीतलत्वात्प्रियः स्पर्शो येषां तैः।