________________
सर्गः ]
सञ्जीविनी - सुधेन्दु टीकात्रयोपेतम् |
३३
शालनिर्यासगन्धिभिः सर्जतरुनिस्यन्दगन्धवद्भिः । ' शाल: सर्जतरुः स्मृतः' इति शाश्वतः । उत्किरन्ति विक्षिपन्तीत्युत्किराः । ' इगुपध० ' इत्यादिना किरतेः कप्रत्ययः । पुप्परेणूनामुत्किरास्तैराधूता मान्द्यादोषत्कम्पिता वनराजयो यैस्तैर्वातैः सेव्यमानौ ।
अ०—‘पुनः कथम्भूतौ' सुखस्पशैः, शालनिर्यासगन्धिभिः, पुष्प रेणूत्किरैः, आधूतवनराजिभिः, वातैः सेव्यमानौ, 'तौ जग्मतुः । वा० - सुखस्पर्शाच्छालनिर्यासगन्धिनः पुष्परेणूत्किरानाधूतवनराजीन् वातान् सेवमानाभ्यां 'ताभ्यां जग्मे' ।
सु० -- सुखस्पर्शैः = आनन्दप्रदस्पर्शैः, प्रियस्पशैरिति यावत् । शालनिर्यासगन्धिभिः=सर्जतरुनिस्यन्दगन्धवद्भिः, पुष्प रेणूत्किरैः = प्रसूनपरागविक्षेपकैः, आधूतवनराजिभिः = ईषत्कम्पितकाननपङ्क्तिभिः, वातैः = पवनैः सेव्यमानौ = परिचय्र्यमाण 'तौ दम्पती जग्मतुः । एतेन सुखकर वायुसञ्चारेणाभीष्टसिद्धिस्तयोः सूचिता ।
स०- - शालेभ्यो निर्यासाः, शालनिर्यासाः, शालनिर्यासाश्च ते गन्धाः शालनिर्यासगन्धाः, शालनिर्यासगन्धाः सन्त्येषु ते शालनिर्यासगन्धिनस्तैः शालनिर्यासगन्धिभिः । उत्किरन्तीत्युत्किराः पुष्पाणां रेणवः पुष्परेणवः तेषामुत्किराः पुष्परेणूक्कि - रास्तैः पुष्परेणूत्किरैः । आङ् = ईषद् धूता आधूताः वनस्य राजयो वनराजयः आधूता वनराजयो यैस्ते, आधूतघन राज्यस्तै राधूतवनराजिभिः ।
को० - 'परागः कौसुमेरेणौ धूलिस्नानीययोरपि । गिरिप्रभेदे विख्यातावुपरागे च चन्दने' इति कोशान्तरम् । 'परागः सुमनोरजः' इति चामरः । ' नभस्वद्वातपवनपवमानप्रभञ्जनाः' इत्यमरः । ' अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । 'वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्यमरः ।
ता-पुत्राप्त्युपायजिज्ञासया गच्छतोस्तयोर्यात्रायां मार्गेऽभीष्टफलप्राप्तिसूचकः सुखस्पर्शो वायुर्ववौ ।
इन्दुः- सुखकर स्पर्शवाली, शालवृक्षोंसे निकली हुई गन्ध से युक्त पुष्पों के परागों को उड़ानेवाली वायु का 'सुदक्षिणा और दिलीप' सेवन करते हुए जाने लगे । मार्गे मयूरवाणीः शृण्वतोस्तयोर्गमनमित्याह
सनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनी: केका द्विधा भिन्ना शिखण्डिभिः ॥ ३६ ॥
1
सञ्जी० – मनोऽभिरामा इति । रथनेमिस्वनोन्मुखैः । मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः। शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः शुद्धविकृतभेदेनाविष्कृतावस्थाद्वयाश्च्युताच्युतभेदेन वा षड्जो द्विविधः । तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते । अत एवाह - षड्जसंवादिनीरिति । षड्भ्यः स्थानेभ्यो जातः पड्जः । तदुक्तं ( नासाकण्ठमुरस्तालुजिह्वा न्ताँश्च संस्पृशन्। षड्भ्यः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः । ) स च तन्त्रीकण्ठजन्मा स्वरविशेषः । 'निषादर्पभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ।' इत्यमरः । षड्जेन संवादिनीः सदृशीः । ३ रघु० १ सर्ग