SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्यम् [प्रथमः तदुक्तं मातङ्गेन-(षड्ज मयूरो वदति) इति । मनोऽभिरामाः, मनसः प्रियाः। के मूर्धनि कायन्ति ध्वनन्तीति केका मयूरवाण्यः 'केका वाणी मयूरस्य' इत्यमरः । ता केकाः शृण्वन्ती, इति श्लोकार्थः। ___ अ०-रथनेमिस्वनोन्मुखैः, शिखण्डिभिः, द्विधा, भिन्नाः,षड्जसंवादिनीः, मनोऽभिरामाः, केकाः, शृण्वन्तो, 'तौ दम्पती जग्मतुः' वा०-रथनेमिस्वनोन्मुखैः शिखण्डिभिद्विधा भिन्नाः षड्जसंवादिनीर्मनोऽभिरामाः केकाः 'शृण्वद्भयां' ताभ्यां जग्मे । सधा-रथनेमिस्वनोन्मुखः स्यन्दनचक्रप्रान्तनिनादोन्नमिताननेः, मेघध्वनिशकयोर्ध्वमुखैरिति यावत् । शिखण्डिभिः= मयूरैः, द्विधा-द्विप्रकाराः, शुद्धविकृतभेदेनेति शेपः । भिन्नाः=भेदमापन्नाः, द्वधीभूताः इत्यर्थः। पड्जसंवादिनीः तन्त्रीकण्ठ विनिःसृतस्वरविशेषानुसारिणीः, मनोऽभिरामाः हृदयप्रियाः, मानसानन्ददायिनी रित्यर्थः । केकाः मयूरवाणीः, शृण्वन्तौ=आकर्णयन्तौ 'तौ सुदक्षिणादिलीपो जग्मतुः' स०-अभिरमते मनो यासु ता अभिरामाः मनसोऽभिरामा मनोभिरामास्ता मनोऽभिरामाः । रथस्य नेमी रथनेमिः तयोः स्वनो रथनेमिस्वनः। उद् ऊर्ध्व मुखं येषान्ते, उन्मुखाः रथनेमिस्वनेनोन्मुखा रथनेमिस्वनोन्मुखास्तै रथनेसिस्वनो. न्मुखैः। षड्भ्यः स्थानेभ्यः संजातः पड्जः, संवदितुं शीलमस्त्यासामिति संवादिन्यः षड्जस्य संवादिन्यः षड्जसंवादिन्यस्ताः षड्जसंवादिनीः। को०-'पुंल्लिङ्गस्तिनिशे नेमिश्चक्रप्रान्ते स्त्रियामपि' इति रुद्रः । 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इत्यमरः । 'षड्ज मयूरो वदति' इति मातङ्गोक्तिः । 'शिखण्डस्तु, पिच्छबर्हे नपुंसके' इत्यमरः । ता०-रथचक्रप्रान्तोद्भूतशब्दं मेघध्वनि मन्यमानानामत एवोर्ध्वमुखानां मयूराणां वाणीः शृण्वन्तौ तौ जग्मतुः। इन्दुः-रथ के चक्रप्रान्त के शब्द को सुन कर ऊपर मुख किये हुये मयूरों द्वारा दो प्रकार की की हुई, षड्ज स्वर का अनुसरण करनेवाली तथा मन को प्रसन्न करने वाली वाणी को सुनते हुये वे दोनों चले ॥ ३९॥ मृगद्वन्द्व पश्यतोस्तयोर्गमनम्__परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।। मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।। ४० ।। सञ्जी-परस्परेति। विश्रम्भाद् दूरं समीपं यथा भवति तथोज्झितंवर्त्म यैस्तेपु । स्यन्दनावद्धदृष्टिषु स्यन्दने रथे आबद्धाऽऽसञ्जिता दृष्टिनॆत्रं यस्तेषु । 'दृग्दृष्टिनेत्रलो. चनचक्षुर्नयनाम्बकेक्षणाक्षीणि' इति हलायुधः। कौतुकवशाद्रथासकदृष्टिवित्यर्थः । मृग्यश्च मृगाश्च मृगाः 'पुमान् स्त्रिया' इत्येकशेषः । तेषां द्वन्द्वषु। मिथुनेपु । 'स्त्रीपुंसौ मिथुनं द्वन्द्वम्' इत्यमरः । परस्पराणां सादृश्यं पश्यन्तौ । द्वन्द्वशब्दसामर्थ्यान्मृगीषु सदक्षिणाक्षिसादृश्यं दिलीपो, दिलीपाक्षिसादृश्यं च मृगेषु सदक्षिणेत्येवं विवेकव्यम्।
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy