________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम | होने पर भी) दृढचित्त सुदक्षिणा और लक्ष्मी से ही वह अपने को स्त्रीवाला समझता था ॥ ३२ ॥ दिलीपः स्वपत्न्यां बहुदिनावधि पुनोत्पत्तिप्रतीक्षणं कृतवानित्याह
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः ।
विलम्बितफलैः कालं स निनाय मनोरथैः ।। ३३ ॥ सञ्जी०-तस्यामिति । स राजा। आत्मानुरूपायां तस्याम् । आत्मनो जन्म यस्यासावात्मजन्मा पुत्रः। तस्मिन्समुत्सुकः। यद्वा । आत्मनो जन्मनि पुत्ररूपेणोत्पत्ती समुत्सुकः सन् । (आत्मा वै पुत्रनामासि) इति श्रुतेः। विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तेर्मनोरथैः कदा मे पुत्रो भवेदित्याशाभिः कालं निनाय यापयामास ।।
अ०-सः, आत्मानुरूपायां, तस्याम, आत्मजन्मसमुत्सुकः, 'सन्'विलम्बितफलैं: मनोरथैः, कालं, निनाय । वा०-तेनात्मानुरूपायां तस्यामात्मजन्मसमुत्सुकेन 'सता' विलम्वितफलैर्मनोरथैः कालो निन्ये ।
सुधा-सः= राजा दिलीपः, आत्मानुरूपायां स्वसदृशि, तस्यां सुदक्षिणा. याम् । आत्मजन्मसमुत्सुकः पुत्रोत्पत्तीष्टार्थोद्युक्तः, पुत्रप्राप्तौ सोद्योग इति भावः । सन्निति शेषः। विलम्बितफलैः = चिरायितपुत्रप्राप्तिहेतुकृतैः, मनोरथैः = कासाभिः कदा मे पुत्रो भविष्यतीत्यात्मकैरिति भावः । कालं = समयं । निनाय = नीतवान् ।
स०-आत्मनो जन्म आत्मजन्म आत्मजन्मनि समुत्सुकः आत्मजन्मसमुत्सुकः । विलम्बितं फलं येषान्ते विलम्बितफलास्तैर्विलम्बितफलैः। ___ को०-'आत्मा वै पुत्रनामासि' इति श्रुतिः। 'जनुर्जननजन्मानि जनिरुत्पत्तिल, द्भवः' इत्यमरः । 'इष्टार्थोद्युक्त उत्सुकः' इत्यमरः । 'कालो मृत्यौ महाकाले समये यमकृष्णयोः' इति मेदिनी।
ता०-स्वमनोऽनुकूलायां तस्यां सुदक्षिणायां पुत्रोत्पादनोत्सुको दिलीपो बहुदिवसानि व्यतीयाय।
इन्दुः-उस 'राजा दिलीप' ने अपने मन के अनुरूप उस 'सुदक्षिणा' में पुत्र के जन्म के विषय में उत्सुक होते हुए, विलम्ब है जिसके फलमें ऐसी 'कब मुझे पुत्र होगा' आकाङ्क्षा से समय बिताया ॥ ३३ ॥ ®सन्तानार्थमुद्योक्तुं प्रवृत्तस्य राज्ञो मन्त्रिवर्गे राज्यभारसमर्पणमित्याह
संतानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ ३४ ॥ सञ्जी०-संतानेति । तेन दिलीपेन । संतानोऽर्थः प्रयोजनं यस्य तस्मै संताना. र्थाय विधयेऽनुष्ठानाय । स्वभुजादवतारिताऽवरोपिता जगतो लोकस्य गुर्वी धूर्भारः सचिवेषु निचिक्षिपे निहिता।