Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 29
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । २५ मरः । श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि' इति विश्वः । ता--भयेभ्यस्त्रातुर्दिलीपस्य राज्ञो यशोऽन्ये नृपा नानुचक्रः, यतस्तद्राज्ये न वस्तुतश्चौर्यमभूत् किन्तु चौर्यशब्दः केवलं लोकानां श्रवणगोचर एवाभूत् । __ इन्दुः-अन्य राजा लोग 'भय से रक्षा करने वाले उस राजा दिलीप के यश का अनुकरण नहीं कर सके, क्योंकि उसके राज्य में चोरी 'यह शब्द' अपने विषयभूत दूसरे के द्रव्य से पृथक होती हुई केवल श्रवणगोचर हुई। अथवा-चोरी अर्थवाचक चोरी शब्द के ही चुराने में प्रवृत्त हुई ॥ २७ ॥ तस्य शिष्ट एव प्रियो दृष्ट एवाप्रिय आसादित्याह द्वेष्योऽपि संमतः शिष्टस्तस्यातस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गलीबोरगक्षता ॥ २८ ॥ सञ्जी०--द्वेष्य इति । शिष्टो सजनो द्वेष्यः शत्रुरपि । आर्तस्य रोगिण औषधं यथौषधमिव । तस्य संमतोऽनुमत आसीत्। दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि । उरगक्षता सर्पदृष्टाऽङ्गुलीव । ( छिन्याद् वाहुमपि दुष्टात्मनः) इति न्यायात् त्याज्य आसीत् तस्य शिष्ट एव बन्धुदुष्ट एव शत्रुरित्यर्थः। अ०-शिष्टः, द्वेष्यः, अपि, आर्त्तस्य, औषधं, यथा, तस्य, सम्मतः, 'आसीत्' दुष्टः, प्रियः, अपि, उरगक्षता, अङ्गुली, इव 'तस्य' त्याज्यः, आसीत्। __वा०--शिष्टेन द्वेष्येणाप्यौषधेन यथा तस्य सम्मतेनाभूयत, दुष्टेन प्रियेणाप्युरगक्षतयाऽङ्गुल्येव त्याज्येनाभूयत। सुधा-शिष्टः सज्जनः, द्वेष्योऽपि = अतिगतोऽपि, शत्ररपीति यावत् । आर्तस्यदुःखितस्य, रोगेणेति शेषः, रोगिण इति भावः । औषधम् = भेषजं, यथा-इव, तस्य-दिलीपस्य, सम्मतः = अभिमतः, प्रिय इति यावत्। आसीदिति शेषः । दुष्टामदुर्जनः, प्रियोऽपि वल्लभोऽपि, सुहृदपीति यावत् । उरगलता=सर्पदष्टा, अङ्गुली = करशाखा, इव = यथा, तस्येति शेषः । त्याज्यः = त्यागाहः, आसीत्= अभूत् । तस्य दिलीपस्य सुजनो बन्धुरसज्जनो रिपुरासीदिति भावः। __ ता०-यथा कटुभैषज्यं रोगग्रस्तस्य प्रियं भवति, तथैव तस्य दिलीपस्यापि सजनः शत्रुरपि सन् प्रियोऽभूद्, असजनः प्रियतमोऽपि सन् सर्पदष्टाङ्गुलीव त्याज्योऽभूत । इन्दुः-जिस प्रकार रोगी को कड़वी 'हितकर' औषधि भी प्यारी होती है, उसी प्रकार उस राजा दिलीप का द्वेष करने के योग्य 'वैरी' होता हुआ भी सजन प्यारा होता था और प्यारा होता हुआ भी दुर्जन साँप से काटी हुई अँगुली की भाँति छोड़ देने के योग्य होता था ॥ २८॥ तं घेधा विदधे नूनं महाभूतसमाधिना। तथा हि सर्वे तस्यासन्परार्थेकफला गुणाः ॥ २६ ॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149