Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 27
________________ सर्गः 1 विनी - सुधेन्दुटी कात्रयोपेतम् | २३ प्रतिष्ठायै, लोकस्येति शेषः । दण्डयतः = शिक्षयतः, प्रसूतये = सन्तानाय, एवेति शेषः । परिणेतुः = कृतदारपरिग्रहस्य, मे मनीषिणः = विदुषः, दोषाणामिति शेषः । तस्य = दिलीपस्य, अर्थकामावपि = अर्थकामाख्यौ, पुरुषार्थावपि, धर्म एव = सुकृतमेव, आस्ताम् = अभूताम् । सo - मनस ईषा मनीषा साऽस्त्यस्मिन्निति मनीपी मनीषिणः । को०-- 'अर्थों हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारद्रव्य वस्तुषु' इति 'हैमः । 'इच्छामनोभवौ कामौ ' इत्यमरः 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । ता० - स दिलीपोऽपराधानुसारेण दण्डयोग्यानां दण्डदानात् तथा पुत्रेच्छया विवाहकरणात् परमधार्मिकोऽभूत् । इन्दुः-- 'लोकमर्यादा की स्थिति के लिये अपराधियों को दण्ड देने वाले, सन्तान के लिये विवाह करने वाले 'अत एव' बुद्धिमान् उस राजा दिलीप के अर्थ और काम भी धर्म ही हुए ॥ २५ ॥ तस्य दिलीपस्येन्द्रेण सह परस्परविनिमयेन सख्यमाह दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनो भौ टेघुतुर्भुवनद्वयम् ।। २६ ।। सञ्जी० - दुदोहेति । स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दोह | करग्रहणेन रिक्तां चकारेत्यर्थः। मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गे दुदोह । धुलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः । ' क्रियार्थोपपद०' इत्यादिना यज्ञसस्याभ्यां चतुर्थी । एवमुभौ सम्पदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुपतुः । राजा यज्ञैरिन्द्रलोकमिन्द्रश्वोदकेन भूलोकं पुपोषेत्यर्थः । उक्तं च दण्डनीती -- 'राजा स्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत्' ॥ इति ॥ अ० -- सः, यज्ञाय, गां, दुदोह, मघवा, सस्याय, दिवं, 'दुदोह' 'एवम्' उभौ, सम्पद्विनिमयेन, भुवनद्वयं दधतुः । वा०-- तेन यज्ञाय गौर्दुदुहे मघोना सस्याय द्यौः 'दुदुहे ' उभाभ्यां सम्पद्विनिमयेन भुवनद्वयं दधे । सुधा -- सः := राजा दिलीपः, यज्ञाय = यागाय, यज्ञं कर्तुमिति यावत् । गां= क्षमाम्, पृथ्वीमित्यर्थः । दुदोह = अदुहत्, षष्ठांशरूपकरादानेन पृथ्वीं रिक्तां चकारेत्यर्थः । मघवा=इन्द्रः, सस्याय =धान्याय, सस्यं वर्धयितुमिति यावत् । दिवं स्वर्गं दुदोह= स्वर्गाद् भूतले वृष्टिं कारयामासेत्यर्थः । 'एवम्' उभौ = इन्द्रदिलीपौ, सम्पद्विनिमयेन = परस्परं सस्यवृष्टिरूपसम्पदोरादानप्रतिदानाभ्याम् भुवनद्वयं = लोकद्वितयं स्वर्गलोकं मर्त्यलोकञ्चेत्यर्थः । दधतुः = पालयामासतुः, राजा दिलीपो यागैः स्वर्गलोकम् इन्द्रश्च वृष्ट्या मर्त्यलोकं ररक्षतुरिति भावः ।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149