________________
सर्गः 1
विनी - सुधेन्दुटी कात्रयोपेतम् |
२३
प्रतिष्ठायै, लोकस्येति शेषः । दण्डयतः = शिक्षयतः, प्रसूतये = सन्तानाय, एवेति शेषः । परिणेतुः = कृतदारपरिग्रहस्य, मे मनीषिणः = विदुषः, दोषाणामिति शेषः । तस्य = दिलीपस्य, अर्थकामावपि = अर्थकामाख्यौ, पुरुषार्थावपि, धर्म एव = सुकृतमेव, आस्ताम् = अभूताम् ।
सo - मनस ईषा मनीषा साऽस्त्यस्मिन्निति मनीपी मनीषिणः ।
को०-- 'अर्थों हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारद्रव्य वस्तुषु' इति 'हैमः । 'इच्छामनोभवौ कामौ ' इत्यमरः 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः ।
ता० - स दिलीपोऽपराधानुसारेण दण्डयोग्यानां दण्डदानात् तथा पुत्रेच्छया विवाहकरणात् परमधार्मिकोऽभूत् ।
इन्दुः-- 'लोकमर्यादा की स्थिति के लिये अपराधियों को दण्ड देने वाले, सन्तान के लिये विवाह करने वाले 'अत एव' बुद्धिमान् उस राजा दिलीप के अर्थ और काम भी धर्म ही हुए ॥ २५ ॥
तस्य दिलीपस्येन्द्रेण सह परस्परविनिमयेन सख्यमाह
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनो भौ टेघुतुर्भुवनद्वयम् ।। २६ ।।
सञ्जी० - दुदोहेति । स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दोह | करग्रहणेन रिक्तां चकारेत्यर्थः। मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गे दुदोह । धुलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः । ' क्रियार्थोपपद०' इत्यादिना यज्ञसस्याभ्यां चतुर्थी । एवमुभौ सम्पदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुपतुः । राजा यज्ञैरिन्द्रलोकमिन्द्रश्वोदकेन भूलोकं पुपोषेत्यर्थः । उक्तं च दण्डनीती -- 'राजा स्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत्' ॥ इति ॥
अ० -- सः, यज्ञाय, गां, दुदोह, मघवा, सस्याय, दिवं, 'दुदोह' 'एवम्' उभौ, सम्पद्विनिमयेन, भुवनद्वयं दधतुः । वा०-- तेन यज्ञाय गौर्दुदुहे मघोना सस्याय द्यौः 'दुदुहे ' उभाभ्यां सम्पद्विनिमयेन भुवनद्वयं दधे ।
सुधा -- सः := राजा दिलीपः, यज्ञाय = यागाय, यज्ञं कर्तुमिति यावत् । गां= क्षमाम्, पृथ्वीमित्यर्थः । दुदोह = अदुहत्, षष्ठांशरूपकरादानेन पृथ्वीं रिक्तां चकारेत्यर्थः । मघवा=इन्द्रः, सस्याय =धान्याय, सस्यं वर्धयितुमिति यावत् । दिवं स्वर्गं दुदोह= स्वर्गाद् भूतले वृष्टिं कारयामासेत्यर्थः । 'एवम्' उभौ = इन्द्रदिलीपौ, सम्पद्विनिमयेन = परस्परं सस्यवृष्टिरूपसम्पदोरादानप्रतिदानाभ्याम् भुवनद्वयं = लोकद्वितयं स्वर्गलोकं मर्त्यलोकञ्चेत्यर्थः । दधतुः = पालयामासतुः, राजा दिलीपो यागैः स्वर्गलोकम् इन्द्रश्च वृष्ट्या मर्त्यलोकं ररक्षतुरिति भावः ।