________________
रघुवंशमहाकाव्यम्
[प्रथम:___ स०--सम्पदो विनिमयः सम्पद्विनिमयस्तेन सम्पद्विनिमयेन ॥
को०--'यज्ञः सवोऽध्वरो यागः सप्ततन्तु खः क्रतुः' इत्यमरः। 'वृक्षादीनां फलं सस्यम्' इत्यमरः । 'इन्द्रो मरुत्वान्मघवा विदौजाः पाकशासनः' इत्यमरः । 'सुरलोको धौदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्' इत्यमरः। 'सम्पदि। संपत्तिः श्रीश्च लक्ष्मीश्च' इत्यमरः । 'जगती लोको, विष्टपं भुवनं जगद्' इत्यमरः।
ता०--सम्पादितसख्याविव इन्द्रदिलीपी वृष्टियज्ञाभ्यां मर्त्यस्वर्गलोकौ मिथो ररक्षतुः।
इन्दुः-उस राजा दिलीप ने यज्ञ करने के लिये पृथ्वी को 'षष्ठांशरूप' कर ग्रहण द्वारा दुहा, और इन्द्र ने धान्य की वृद्धि होने के लिये स्वर्ग को वृष्टिद्वारा दुहा । इस प्रकार से' दोनों (इन्द्र और दिलीप) ने परस्पर 'धन और वृष्टिरूप' अपनी २ सम्पत्ति बदलने से दोनों 'स्वर्ग और मयं लोक की रक्षा की ॥ २६ ॥ तस्य राज्ये तस्करभयं नासीदित्याह
न किलानुययुस्तस्य रामानो रक्षितर्यशः ।
व्यावृत्ता यत्परस्वभ्यः अतौ तस्करता स्थिता ॥ २७ ॥ सञ्जी०-नेति । राजानोऽन्ये नृपा राक्षतुर्भयेभ्यस्त्रातुस्तस्य राज्ञो यशो नानुययुः किल नानुचक्रः खलु । कुतः यद्यस्मात्कारणात्तस्करता चौर्य परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता, अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः। अथवा (अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि) इति न्यायेन शब्दे स्थिता स्फुरिता न तु स्वरूपतोऽस्तीत्यर्थः।
अ०-राजानः, रक्षितुः, तस्य, यशः, न, अनुययुः, किल, यत्, तस्करता, परस्वेभ्यः, व्यावृत्ता 'सती' श्रुतौ, स्थिता । वा०-'भन्यैः' राजभी रक्षितुस्तस्य यशो नानुयये किल, यत्, तस्फरतया परस्वेभ्यो व्यावृत्तया 'सत्या' श्रुतौ स्थितयाऽभावि ।
सुधा-राजानः= अन्ये नरपतयः, रक्षितः त्रातुः, 'भयेभ्यः' इति शेषः। तस्यराज्ञो दिलीपस्य, यशः कीर्ति, न= नहि, अनुययुः= अनुचक्रुः, किल= प्रसिद्धौ। यत् = यस्मात् कारणात्, तस्करता=चौर्यम्, परस्वेभ्यः= अन्यदीयधनेभ्यः, स्वविषयभूतेभ्य इति भावः । व्यावृत्तापराङ्मुखीभूता 'सती'। श्रुतौ श्रवणे, तस्करतेत्यर्थप्रतिपादके वाचकशब्द इति भावः। स्थिता=प्रवृत्ता, अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः । अथवा श्रुतौ= ध्वनौ 'रवमात्रे' स्थिता=अस्थात् , तस्करता केवलं श्रयत एव नहि परधनार्थ प्रवर्तते।
स०-परेषां स्वानि परस्वानि तेभ्यः परस्वेभ्यः।
को०-'यशः कीर्तिः समज्ञा च' इत्यमरः । 'परः श्रेष्ठारिदूरान्योत्तरे क्लीवं तु केवले' इति मेदिनी। 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्य